Book 2 • Chapter 61
Sarga 61
27 verses
Verse 1
वनं गते धर्मपरे रामे रमयतां वरे कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्
Verse 2
यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः सानुक्रोशो वदान्यश्च प्रियवादी च राघवः
Verse 3
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः
Verse 4
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता कथमुष्णं च शीतं च मैथिली प्रसहिष्यते
Verse 5
भुक्त्वाऽशनं विशालाक्षी सूपदं शान्वितं शुभम् वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते
Verse 6
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्
Verse 7
महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः भुजं परिघसङ्काशमुपधाय महाबलः
Verse 8
पद्मवर्णं सुकेशान्तं पद्मनिश्श्वासमुत्तमम् कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्
Verse 9
वज्रसारमयं नूनं हृदयं मे न संशयः अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा
Verse 10
यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने
Verse 11
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति जह्याद्राज्यं च कोषं च भरतो नोपलक्षयते
Verse 12
भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान् ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्
Verse 13
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः
Verse 14
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः नाभ्युपैतुमलं प्राज्ञा श्शृङ्गच्छेदमिवर्षभाः
Verse 15
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते
Verse 16
न परेणाऽहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति एवमेतन्नरव्याघ्रः परलीढं न मन्यते
Verse 17
हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः नैतानि यातयामानि कुर्वन्ति पुनरध्वरे
Verse 18
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्
Verse 19
न चेमां धर्षणां राम सङ्गच्छेदत्यमर्षणः दारयेन्मन्दरमपि स हि क्रुद्धश्शितैश्शरैः
Verse 20
त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात् ससोमार्कग्रहगणं नभस्ताराविचित्रितम् पातयेद्योदिवं क्रुद्धस्सत्वां न व्यतिवर्तते प्रक्षोभयेद्वारये द्वा महीं शैलशताचिताम्
Verse 21
त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात् ससोमार्कग्रहगणं नभस्ताराविचित्रितम् पातयेद्योदिवं क्रुद्धस्सत्वां न व्यतिवर्तते प्रक्षोभयेद्वारये द्वा महीं शैलशताचिताम्
Verse 22
नैवं विधमसत्कारं राघवो मर्षयिष्यति बलवानिव शार्दूलो वालधेरभिमर्शनम्
Verse 23
नैतस्य सहिता लोका भयं कुर्युर्महामृथे अधर्मंत्विह धर्मात्मा लोकं धर्मेण योजयेत्
Verse 24
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः युगान्त इव भूतानि सागरानपि निर्दहेत्
Verse 25
स तादृशस्सिंहबलो वृषभाक्षो नरर्षभः स्वयमेव हतः पित्रा जलजेनात्मजो यथा
Verse 26
द्विजातिचरितो धर्मश्शास्त्रदृष्टस्सनातनः यदि ते धर्मनिरते त्वया पुत्रे विवासिते
Verse 27
गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते
0:000:00
Speed: