🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 60

Sarga 60

23 verses

Verse 1
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्
Verse 2
नय मां यत्र काकुत्स्थस्सीता यत्र  लक्ष्मणः तान्विना क्षणमप्यत्र जीवितुं नोत्सहेह्यहम्
Verse 3
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्
Verse 4
बाष्पवेगोपहतया  वाचा सज्जमानया इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत्
Verse 5
त्यज शोकं  मोहं  सम्भ्रमं दुःखजं तथा व्यवधूय  सन्तापं वने वत्स्यति राघवः
Verse 6
लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
Verse 7
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा
Verse 8
नास्या दैन्यं कृतं किञ्चित्सुसूक्ष्ममपि लक्ष्यते उचितेव प्रवासानां वैदेही प्रतिभाति मा
Verse 9
नगरोपवनं गत्वा यथा स्मरमते पुरा तथैव रमते सीता निर्जनेषु वनेष्वपि
Verse 10
बालेव रमते सीताऽबालचन्द्रनिभानना रामा रामे ह्यधीनात्मा विजनेऽपि वने सती
Verse 11
तद्गतं हृदयं ह्यस्यास्तदधीनं  जीवितम् अयोध्यापि भवेऽत्तस्या रामहीना तदा वनम्
Verse 12
परिपृच्छति वैदेही ग्रामांश्च नगराणि  गतिं दृष्ट्वा नदीनां  पादपान्विविधानपि रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी अयोध्या क्रोशमात्रे तु विहारमिव संश्रिता
Verse 13
परिपृच्छति वैदेही ग्रामांश्च नगराणि  गतिं दृष्ट्वा नदीनां  पादपान्विविधानपि रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी अयोध्या क्रोशमात्रे तु विहारमिव संश्रिता
Verse 14
इदमेव स्मराम्यस्यास्सहसैवोपजल्पितम् कैकेयी संश्रितं वाक्यं नेदानीं प्रतिभाति मा
Verse 15
ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपत्स्थितम् ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्
Verse 16
अध्वना वातवेगेन सम्भ्रमेणाऽऽतपेन   विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा
Verse 17
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् वदनं तद्वदान्याया वैदेह्या  विकम्पते
Verse 18
अलक्तरसरक्ताभावलक्तरसवर्जितौ अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ
Verse 19
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी इदानीमपि वैदेही तद्रागान्नयस्त भूषणा
Verse 20
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता नाऽहारयति सन्त्रासं बाहू रामस्य संश्रिता
Verse 21
 शोच्यास्ते  चात्मनश्शोच्यो नापि जनाधिपः इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
Verse 22
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवत्स्थिताः वनेरता वन्यफलाशनाः पितुश्शुभां प्रतिज्ञां परिपालयन्ति ते
Verse 23
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता  चैव देवी विरराम कूजितात्प्रियेति पुत्रेति  राघवेति 
0:000:00
Speed: