Book 2 • Chapter 59
Sarga 59
38 verses
Verse 1
इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत्
Verse 2
तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लबः कथयामास भूयोऽपि रामसन्देशविस्तरम्
Verse 3
जटाः कृत्वा महाराज चीरवल्कलधारिणौ गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ
Verse 4
अग्रतो लक्ष्मणो यातः पालयन्रघुनन्दनम् तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा
Verse 5
ममत्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम्
Verse 6
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्
Verse 7
गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून् आशया यदि मां रामः पुन श्शब्दापयेदिति
Verse 8
विषये ते महाराज रामव्यसनकर्शिताः अपि वृक्षाः परिम्लानास्सपुष्पाङ्कुरकोरकाः
Verse 9
उपतप्तोदका नद्यः पल्वलानि सरांसि च परिशुष्कपलाशानि वनान्युपवनानि च
Verse 10
न च सर्पन्ति सत्त्वानि व्यासा न प्रचरन्ति च रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्
Verse 11
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः
Verse 12
जलजानि च पुष्पाणि माल्यानि स्थलजानि च नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम्
Verse 13
अत्रोद्यानानि शून्यानि प्रलीनविहगनि च न चाभिरामा नारामान्पश्यामि मनुजर्षभ
Verse 14
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति नरा राममपश्यन्तो निश्श्वसन्ति मुहुर्मुहुः
Verse 15
देव राजरथं दृष्ट्वा विना राममिहागतम् दुःखादश्रुमुखस्सर्वो राजमार्गगतो जनः
Verse 16
हर्म्यैर्विमानैः प्रासादैरवेक्ष्यरथमागतम् हाहाकारकृतानार्यो रामादर्शनकर्शिताः
Verse 17
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः
Verse 18
नामित्राणां न मित्राणामुदासीनजनस्य च अहमार्ततया किञ्चिद्विशेषमुपलक्षये
Verse 19
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्स्वना निरानन्दा महाराज रामप्रव्राजनातुरा कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा
Verse 20
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्स्वना निरानन्दा महाराज रामप्रव्राजनातुरा कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा
Verse 21
सूतस्य वचनं श्रुत्वा वाचा परमदीनया बाष्पोपहतया राजा तं सूतमिदमब्रवीत्
Verse 22
कैकेय्या विनियुक्तेन पापाभिजनभावया मया न मन्त्रकुशलैर्वृद्धैस्सह समर्थितम्
Verse 23
न सुहृद्भिर्नचामात्यैर्मन्त्रयित्वा न नैगमैः मयायमर्थस्सम्मोहात् स्त्रीहेतो स्सहसा कृतः
Verse 24
भवितव्यतया नूनमिदं वा व्यसनं महत् कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया
Verse 25
सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् त्वं प्रापयाऽऽशु मां रामं प्राणास्सन्त्वरयन्तिमाम्
Verse 26
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम्
Verse 27
अथवाऽपि महाबाहुर्गतो दूरं भविष्यति मामेव रथमारोप्य शीघ्रं रामाय दर्शय
Verse 28
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः यदि जीवामि साध्वेनं पश्येयं सीतया सह
Verse 29
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् रामं यदि न पश्येयं गमिष्यामि यमक्षयम्
Verse 30
अतो नु किं दुःखतरं सोऽहमिक्ष्वाकुनन्दनम् इमामवस्थामापन्नो नेह पश्यामि राघवम्
Verse 31
हा राम रामानुज हा हा वैदेहि तपस्विनि न मां जानीत दुःखेन म्रियमाणतमनाथवत्
Verse 32
स तेन राजा दुःखेन भृशमर्पितचेतनः अवगाढस्सुदुष्पारं शोकसागरमब्रवीत्
Verse 33
रामशोकमहाभोगस्सीताविरहपारगः श्वसितोर्मि महावर्तो बाष्पफेनजालाविलः बाहुविक्षेपमीनौघो विक्रन्दित महास्वनः प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः वरवेलो नृशंसाया रामप्रव्राजनायतः यस्मिन्बत निमग्नोऽहं कौसल्ये राघवं विना दुस्तरो जीवता देवि मयाऽयं शोकसागरः
Verse 34

Verse 35

Verse 36

Verse 37
अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् इतीव राजा विलपन्महायशाः पपात तूर्णं शयने समूर्छितः
Verse 38
इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता
0:000:00
Speed: