🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 58

Sarga 58

37 verses

Verse 1
प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतं पुनः अथाऽजुहाव तं सूतं रामवृत्तान्तकारणात्
Verse 2
अथ सूतो महाराजं कृताञ्जलिरुपस्थितः राममेवानुशोचन्तं दुःखशोकसमन्वितम् वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् विनिश्वसन्तं ध्यायन्तमस्वस्थ मिव कुङञरम्
Verse 3
अथ सूतो महाराजं कृताञ्जलिरुपस्थितः राममेवानुशोचन्तं दुःखशोकसमन्वितम् वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् विनिश्वसन्तं ध्यायन्तमस्वस्थ मिव कुङञरम्
Verse 4
राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्
Verse 5
क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः सोऽत्यन्तसुखित स्सूत किमशिष्यति राघवः
Verse 6
दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः भूमिपालात्मजो भूमौ शेते कथमनाथवत्
Verse 7
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः  वत्स्यति कथं रामो विजनं वन माश्रितः
Verse 8
व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् कथं कुमारौ वैदेह्या सार्धं वन मुपस्थितौ
Verse 9
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ
Verse 10
सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममाऽत्मजौ वनान्तं प्रविशन्तौ तावश्विनाविवमन्दरम्
Verse 11
किमुवाच वचो रामः किमुवाच  लक्ष्मणः सुमन्त्र वनमासाद्य किमुवाच  मैथिली
Verse 12
आसितं शयितं भुक्तं सूत रामस्य कीर्तय जीविष्यामहमेतेन ययातिरिव साधुषु
Verse 13
इति सूतो नरेन्द्रेण बोधित स्सज्जमानया उवाच वाचा राजानं  बाष्पपरिबद्धया
Verse 14
अब्रवीन्मां महाराज धर्ममेवानुपालयन् अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य 
Verse 15
सूत मद्वचनात्तस्य तातस्य विदितात्मनः शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः
Verse 16
सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया आरोग्यमविशेषेण यथार्हं चाभिवादनम्
Verse 17
माता  मम कौसल्या कुशलं चाभिवादनम् अप्रमादं  वक्तव्या ब्रूयाश्चैनामिदं वचः
Verse 18
धर्मनित्या यथाकालमग्न्यगारपरा भव देवि देवस्य पादौ  देववत्परिपालय
Verse 19
अभिमानं  मानं  त्यक्त्वा वर्तस्व मातृषु अनु राजानमार्यां  कैकेयीमम्ब कारय
Verse 20
कुमारे भरते वृत्तिर्वर्तितव्या  राजवत् अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर
Verse 21
भरतः कुशलं वाच्यो वाच्यो मद्वचनेन  सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु
Verse 22
वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः पितरं यौवराज्यस्थो राज्यस्थमनुपालय
Verse 23
अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः कुमार राज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात्
Verse 24
अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी
Verse 25
इत्येवं मां महराज ब्रुवन्नेव महायशाः रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्
Verse 26
लक्ष्मणस्तु सुसङ्कृद्धो निश्श्वसन्वाक्यमब्रवीत् केनायमपराधेन राजपुत्रो विवासितः
Verse 27
राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः
Verse 28
यदि प्रव्राजितो रामो लोभकारणकारितम् वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्
Verse 29
इदं तावद्यथाकाममीश्वरस्य कृते कृतम् रामस्य तु परित्यागे  हेतु मुपलक्षये
Verse 30
असमीक्षय समारब्धं विरुद्धं बुध्दिलाघवात् जनयिष्यति सङ्क्रोशं राघवस्य विवासनम्
Verse 31
अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये भ्राता भर्ता  बन्धुश्च पिता  मम राघवः
Verse 32
सर्वर्लोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् सर्वलोकोऽनुरज्येत कथं त्वाऽनेनकर्मणा
Verse 33
सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् सर्वलोकं विरुध्येमं कथं राजा भविष्यसि
Verse 34
जानकी तु महाराज निश्श्वसन्ती मनस्विनी भूतोपहतचित्तेव विष्ठिता विस्मृता स्मिता
Verse 35
अदृष्टपूर्वव्यसना राज्यपुत्री यशस्विनी तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत्
Verse 36
उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा
Verse 37
तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्
0:000:00
Speed: