Book 2 • Chapter 57
Sarga 57
34 verses
Verse 1
कथयित्वा सुदुःखार्तस्सुमन्त्रेण चिरं सह रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः
Verse 2
भरद्वाजाभिगमनं प्रयागे च सहाऽसनम् आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम्
Verse 3
अनुज्ञातस्सुमन्त्रोऽथ योजयित्वा हयोत्तमान् अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः
Verse 4
स वनानि सुगन्धीनि सरितश्च सरांसि च पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च
Verse 5
तत स्सायाह्न समये तृतीयेऽहनि सारथिः अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह
Verse 6
स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः
Verse 7
कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी
Verse 8
इति चिन्तापरस्सूतो वाजिभिश्शीघ्रपातिभिः नगरद्वारमासाद्य त्वरितः प्रविवेश ह
Verse 9
सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः क्व राम इति पृच्छन्तस्सूतमभ्यद्रवन्नराः
Verse 10
तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना
Verse 11
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः अहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः
Verse 12
शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम् हतास्म खलु ये नेह पश्याम इति राघवम्
Verse 13
दानयज्ञविवाहेषु समाजेषु महत्सु च न द्रक्ष्यामः पुन र्जातु धार्मिकं राममन्तरा
Verse 14
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् इति रामेण नगरं पितृवत्परिपालितम्
Verse 15
वातायनगतानां च स्त्रीणामन्वन्तरापणम् रामशोकाभितप्तानां शुश्राव परिदेवनम्
Verse 16
स राजमार्गमध्येन सुमन्त्रः पिहिताननः यत्र राजा दशरथस्तदेवोपययौ गृहम्
Verse 17
सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च कक्ष्या स्सप्ताभिचक्राम महाजनसमाकुलाः
Verse 18
हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम् हाहाकारकृता नार्यो रामदर्शनकर्शिताः
Verse 19
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः
Verse 20
ततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्
Verse 21
सह रामेण निर्यातो विना राम मिहागतः सूतः किन्नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति
Verse 22
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति
Verse 23
सत्यरूपं तु तद्वाक्यं राज्ञ: स्त्रीणां निशामयन् प्रदीप्तमिव शोकेन विवेश सहसा गृहम्
Verse 24
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् पुत्रशोकपरिम्लानमपश्यत्पाण्डुरे गृहे
Verse 25
अभिगम्य तमासीनं नरेन्द्रे मभिवाद्य च सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्
Verse 26
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः
Verse 27
ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ उद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ
Verse 28
सुमित्रया तु सहिता कौसल्या पतितं पतिम् उत्थापयामास तदा वचनं चेदमब्रवीत्
Verse 29
इमं तस्य महाभाग दूतं दुष्करकारिणः वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे
Verse 30
अद्यैवमनयं कृत्वा व्यपत्रपसि राघव उत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता
Verse 31
देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम्
Verse 32
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा धरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी
Verse 33
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि पतिं चावेक्ष्य ता स्सर्वा सुस्वरं रुरुदुः स्त्रियः
Verse 34
तत स्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः स्त्रियश्च सर्वा रुरुदु स्समन्ततः पुरं तदासीत्पुनरेव सङ्कुलम्
0:000:00
Speed: