Book 2 • Chapter 56
Sarga 56
37 verses
Verse 1
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः
Verse 2
सौमित्रे श्रुणु वन्यानां वल्गु व्याहरतां स्वनम् सम्प्रतिष्ठामहे काल प्रस्थानस्य परन्तप
Verse 3
स सुप्तस्समये भ्रात्रा लक्ष्मणः प्रतिबोधितः जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्
Verse 4
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या श्शिवं जलम् पन्थानमृषिणाऽदिष्टं चित्रकूटस्य तं ययुः
Verse 5
ततस्सम्प्रस्थितः काले रामस्सौमित्रिणा सह सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्
Verse 6
आदिप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् स्वैः पुष्पैः किंशुकान् पश्य मालिनशिशिरात्यये
Verse 7
पश्य भल्लातकान् फुल्लान्नरै रनुपसेवितान् फलपत्रैरवनता न्नूनं शक्ष्याम जीवितुम्
Verse 8
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण मधूनि मधुकारीभि स्सम्भृतानि नगे नगे
Verse 9
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे
Verse 10
मातङ्गयूथानुसृतं पक्षिसंङ्घानुनादितम् चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्
Verse 11
समभूमितले रम्ये द्रुमैर्बहुभिरावृते पुण्ये रंस्यामहे तात चित्रकूटस्य कानने
Verse 12
ततस्तौ पादचारेण गच्छन्तौ सह सीतया रम्यमासेदतुश्शैलं चित्रकूटं मनोरमम्
Verse 13
तन्तु पर्वतमासाद्य नानापक्षिगणायुतम् बहुमूलफलं रम्यं सम्पन्नं सरसोदकम्
Verse 14
मनोज्ञोऽयं गिरिस्सौम्य नानाद्रुमलतायुतः बहुमूलफलो रम्य स्स्वाजीवः प्रतिभाति मे
Verse 15
मुनयश्च महात्मानो वसन्त्यस्मि शिलोच्चये अयं वासो भवेत्तावदत्र सौम्य रमेमहि
Verse 16
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः अभिगम्याऽश्रमं सर्वे वाल्मीकि मभिवादयन्
Verse 17
तान्महर्षि प्रमुदितः पूजयामास धर्मवित् अस्यतामिति चोवाच स्वागन्तु निवेद्य च
Verse 18
ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः सन्निवेद्य यथान्याय मात्मानमृषये प्रभुः
Verse 19
लक्ष्मणाऽऽनय दारूणि दृढानि च वराणि च कुरुष्वाऽवसथं सौम्य वासे मेऽभिरतं मनः
Verse 20
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् आजहार तत श्चक्रे पर्णशालामरिन्दमः
Verse 21
तां निष्ठितां बद्धकटां दृष्ट्वा रामस्सुदर्शनाम् शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्
Verse 22
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः
Verse 23
मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण कर्तव्य श्शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर
Verse 24
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा चकार स यथोक्तं च तं राम पुनरब्रवीत्
Verse 25
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम्
Verse 26
स लक्ष्मणः कृष्णमृगं मेध्यं हत्वा प्रतापवान् अथ चिक्षेप सौमित्रिस्समिद्धे जातवेदसि
Verse 27
तन्तु पक्वं परिज्ञाय निष्टप्तं छिन्नशोणितम् लक्ष्मण: पुरुषव्याघ्रमथ राघवमब्रवीत्
Verse 28
अयं सर्व: समस्ताग्ङ: श्रृत: कृष्णमृगो मया देवतां देवसङ्काश यजस्व कुशलो ह्यसि
Verse 29
राम: स्नात्वा तु नियतो गुणवान् जप्यकोविदः सङ्ग्रहेणाकरोत् स्रवार्न मन्त्रान् सत्रावसानिकान्
Verse 30
इष्ट्वा देवगणान्सर्वान्विवेशाऽवसथं शुचिः बभूव च मनोह्लादो रामस्यामिततेजसः
Verse 31
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णव मेव च वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् जपं च न्यायत कृत्वा स्नात्वा नद्यां यथाविधि पापसंशमनं राम श्चकार बलिमुत्तमम्
Verse 32
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णव मेव च वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् जपं च न्यायत कृत्वा स्नात्वा नद्यां यथाविधि पापसंशमनं राम श्चकार बलिमुत्तमम्
Verse 33
वेदिस्थलविधानानि चैत्यान्यायतनानि च आश्रमस्यानुरूपाणि स्थापयामास राघवः
Verse 34
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः तौ तर्पयित्वा भूतानि राघवौ सह सीतया तदा विविशतु श्शालां सुशुभां शुभलक्षणौ
Verse 35
तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् वासाय सर्वे विविशुस्समेतास्सभां यथा देवगणास्सुधर्माम्
Verse 36
अनेकनानामृगपक्षिसङ्कुले विचित्रपत्रस्तबकैर्द्रुमैर्युते वनोत्तमे व्यालमृगानुनादिते तदा विजह्रु स्सुसुखं जितेन्द्रियाः
Verse 37
सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुखं पुरविप्रवासात्
0:000:00
Speed: