Book 2 • Chapter 55
Sarga 55
34 verses
Verse 1
उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति
Verse 2
तेषां चैव स्वस्त्ययनं महर्षि स्स चकार ह प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्
Verse 3
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः भरद्वाजो महातेजा रामं सत्यपराक्रमम्
Verse 4
गङ्गायमुनयो स्सन्धिमासाद्य मनुजर्षभौ कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम्
Verse 5
अथाऽसाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम् तस्यास्तीर्थं प्रचलितं पुराणं प्रेक्ष्य राघवौ तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्
Verse 6
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् विवृद्धं बहुभिर्वृक्षै श्श्यामं सिद्धोपसेवितम् तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषश्शिवाः
Verse 7
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् विवृद्धं बहुभिर्वृक्षै श्श्यामं सिद्धोपसेवितम् तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषश्शिवाः
Verse 8
समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः
Verse 9
स पन्थाश्चित्रकूटस्य गत स्सुबहुशो मया रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः
Verse 10
इति पन्थानमावेद्य महर्षिस्सन्यवर्तत अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः
Verse 11
उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत् कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते
Verse 12
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्
Verse 13
अथाऽसाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः
Verse 14
तौ काष्ठसङ्घातमथो चक्रतु स्सुमहाप्लवम् शुष्कैर्वंशै स्समास्तीर्णमुशीरैश्च समावृतम्
Verse 15
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् चकार लक्ष्मणश्छित्वा सीताया स्सुखमासनम्
Verse 16
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ईषत्संलज्जमानां तामध्यारोपयतप्लवम्
Verse 17
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः
Verse 18
आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य तौ तत प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ
Verse 19
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत स्वस्ति देवि तरामि त्वां पारये न्मे पतिर्व्रतम् यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च स्वस्ति प्रत्यागते रामे पुरी मिक्ष्वाकुपालिताम्
Verse 20
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत स्वस्ति देवि तरामि त्वां पारये न्मे पतिर्व्रतम् यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च स्वस्ति प्रत्यागते रामे पुरी मिक्ष्वाकुपालिताम्
Verse 21
कालिन्दी मथ सीता तु याचमाना कृताञ्जलिः तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी
Verse 22
तत प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् तीरजै र्बहुभिर्वृक्षै स्सन्तेरुर्यमुनां नदीम्
Verse 23
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् श्यामं न्यग्रोध मासेदु श्शीतलं हरितच्छदम्
Verse 24
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् कौशल्यां चैव पश्येयं सुमित्रां च यशश्विनीम् इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्
Verse 25
न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् कौशल्यां चैव पश्येयं सुमित्रां च यशश्विनीम् इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्
Verse 26
अवलोक्य तत स्सीतामायाचन्तीमनिन्दिताम् दयितां च विधेयां च रामो लक्ष्मणमब्रवीत्
Verse 27
सीतामादाय गच्छत्वमग्रतो भरतानुज पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर
Verse 28
यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा तत्तत्प्रदद्या वैदेह्या यत्राऽस्या रमते मनः
Verse 29
गच्छतोऽस्तु तयोर्मध्ये बभूव जनकात्मजा मातङ्गयोर्मध्यगता शुभा नागवधूरिव
Verse 30
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला
Verse 31
रमणीयान्बहुविधान्पादपान्कुसुमोत्कटान् सीतावचनसंरब्ध आनयामास लक्ष्मणः
Verse 32
विचित्रवालुकजलां हंससारसनादिताम् रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम्
Verse 33
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने
Verse 34
विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते समं नदीवप्रमुपेत्य सम्मतं निवास माजग्मु रदीनदर्शनाः
0:000:00
Speed: