🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 54

Sarga 54

43 verses

Verse 1
ते तु तस्मिन्महावृक्षे उषित्वा रजनीं शिवाम् विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे
Verse 2
यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ते भूमिभागान्विविधान् देशांश्चापि मनोरमान् अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः
Verse 3
यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ते भूमिभागान्विविधान् देशांश्चापि मनोरमान् अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः
Verse 4
यथा क्षेमेण गच्छन्  पश्यंश्च विविधान् द्रुमान् निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्
Verse 5
प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः
Verse 6
नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम् तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः
Verse 7
दारूणि परिभिन्नानि वनजैरुपजीविभिः भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः
Verse 8
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे गङ्गायमुनयोस्सन्धौ प्रापतुर्निलयं मुनेः
Verse 9
रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्
Verse 10
ततस्त्वाश्रमासाद्य मुनेर्दर्शनकाङ्क्षिणौ सीतयानुगतौ वीरौ दूरादेवावतस्थतुः
Verse 11
 प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्
Verse 12
 प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्
Verse 13
न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ
Verse 14
भार्या ममेयं वैदेही कल्याणी जनकात्मजा मां चानुयाता विजनं तपोवनमनिन्दिता
Verse 15
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुज प्रियः अयमन्वगमद्भ्राता वनमेव दृढव्रतः
Verse 16
पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् धर्ममेव चरिष्याम स्तत्र मूलफलाशनाः
Verse 17
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः उपानयत धर्मात्मा गामर्घ्यमुदकं ततः
Verse 18
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् तेभ्यो ददौ तप्ततपा वासं चैवाभ्यकल्पयत्
Verse 19
मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः राममागतमभ्यर्च्य स्वागतेनाहतं मुनिः
Verse 20
प्रतिगृह्य  तामर्चामुपविष्टं  राघवम् भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा
Verse 21
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् श्रुतं तव मया चेदं विवासनमकारणम्
Verse 22
अवकाशो विविक्तोऽयं महानद्योस्समागमे पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम्
Verse 23
एवमुक्तस्तु वचनं भरद्वाजेन राघवः प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः
Verse 24
भगवन्नित आसन्नः पौरजानपदो जनः सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः अनेन कारणेनाहमिह वासं  रोचये
Verse 25
भगवन्नित आसन्नः पौरजानपदो जनः सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः अनेन कारणेनाहमिह वासं  रोचये
Verse 26
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् रमेत यत्र वैदेही सुखार्हा जनकात्मजा
Verse 27
एतछ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत्
Verse 28
दशक्रोश इतस्तात गिरिर्यत्रनिवत्स्यसि महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः चित्रकूट इति ख्यातो गन्धमादनसन्निभः
Verse 29
दशक्रोश इतस्तात गिरिर्यत्रनिवत्स्यसि महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः चित्रकूट इति ख्यातो गन्धमादनसन्निभः
Verse 30
यावता चित्रकूटस्य नरशृङ्गान्यवेक्षते कल्याणानि समाधत्ते  पापे कुरुते मनः
Verse 31
ऋषयस्तत्र बहवो विहृत्य शरदां शतम् तपसा दिवमारूढाः कपालशिरसा सह
Verse 32
प्रविविक्तमहं मन्ये तं वासं भवतस्सुखम् इह वा वनवासाय वस राम मया सह
Verse 33
 रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् सभार्यं सह  भ्रात्रा प्रतिजग्राह धर्मवित्
Verse 34
तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः प्रपन्ना रजनी पुण्याः चित्राः कथयतः कथाः
Verse 35
सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम्
Verse 36
प्रभातायां रजन्यां तु भरद्वाजमुपागमत् उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्
Verse 37
शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे उषिताः स्मेह वसतिमनुजानातु नो भवान्
Verse 38
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् मधुमूलफलोपेतं चित्रकूटं व्रजेति 
Verse 39
वासमौपयिकं मन्ये तव राम महाबल नानानगगणोपेतः किन्नरोरगसेवितः मयूरनादाभिरुतो गजराजनिषेवितः गम्यतां भवता शैल श्चित्रकूटः  विश्रुतः पुण्यश्च रमणीयश्च बहुमूलफलायुतः
Verse 40
वासमौपयिकं मन्ये तव राम महाबल नानानगगणोपेतः किन्नरोरगसेवितः मयूरनादाभिरुतो गजराजनिषेवितः गम्यतां भवता शैल श्चित्रकूटः  विश्रुतः पुण्यश्च रमणीयश्च बहुमूलफलायुतः
Verse 41
तत्र कुञ्जरयूथानि मृगयूथानि चाभितः विचरन्ति वनान्तेस्मिन् तानि द्रक्ष्यसि राघव
Verse 42
सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान् चरतः सीतया सार्धं नन्दिष्यति मनस्तव
Verse 43
प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम्
0:000:00
Speed: