🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 53

Sarga 53

35 verses

Verse 1
 तं वृक्षं समासाद्य सन्ध्यामन्वास्यपश्चिमाम् रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
Verse 2
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि
Verse 3
जागर्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः
Verse 4
रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे अपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः
Verse 5
 तु संविश्य मेदिन्यां महार्हशयनोचितः इमाः सौमित्रये रामो व्याजहार कथाः शुभाः
Verse 6
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण कृतकामा तु कैकेयी तुष्टा भवितुमर्हति
Verse 7
सा हि देवी महाराजं कैकेयी राज्यकारणात् अपि  च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम्
Verse 8
अनाथश्च हि वृद्धश्च मया चैव विनाकृतः किं करिष्यति कामात्मा कैकेयी वशमागतः
Verse 9
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् काम एवार्थधर्माभ्यां गरीयानिति मे मतिः
Verse 10
को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण
Verse 11
सुखी बत सभार्यश्च भरतः केकयीसुतः मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्
Verse 12
 हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ताते  वयसाऽतीते मयि चारण्यमास्थिते
Verse 13
अर्थधर्मौ परित्यज्य  काममनुवर्तते एवमापद्यते क्षिप्रं राजा दशरथो यथा
Verse 14
मन्ये दशरथान्ताय मम प्रव्राजनाय  कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य 
Verse 15
अपीदानीं तु कैकेयी सौभाग्यमदमोहिता कौसल्यां  सुमित्रां  सम्प्रबाधेत मत्कृते
Verse 16
मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण
Verse 17
अहमेको गमिष्यामि सीतया सह दण्डकान् अनाथाया हि नाथस्त्वं कौशल्याया भविष्यसि
Verse 18
क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् परिदद्याहि धर्मज्ञे भरते मम मातरम्
Verse 19
नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः जनन्या मम सौमित्रे तस्मादेतदुपस्थितम्
Verse 20
मया हि चिरपुष्टेन दुखसंवर्धितेन  विप्रयुज्यत कौशल्या फलकाले धिगस्तु माम्
Verse 21
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्
Verse 22
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश
Verse 23
शोचन्त्या अल्पभाग्याया  किञ्चिदुपकुर्वता पुत्रेण किमपुत्राया मया कार्यमरिन्दम
Verse 24
अल्पभाग्या हि मे माता कौशल्या रहिता मया शेते परमदुःखार्ता पतिता शोकसागरे
Verse 25
एको ह्यहमयोध्यां  पृथिवीं चापि लक्ष्मण तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्
Verse 26
अधर्मभयभीतश्च परलोकस्य चानघ तेन लक्ष्मण नाद्याह मात्मानमभिषेचये
Verse 27
एतदन्यश्च करुणं विलप्य विजने वने अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्
Verse 28
विलप्योपरतं रामं गतार्चिषमिवानलम् समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः
Verse 29
ध्रुवमद्य पुरी राजन्नयोध्यायुधिनां वर निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी
Verse 30
नैतदौपयिकं राम यदिदं परितप्यते विषादयसि सीतां  मां चैव पुरुषर्षभ
Verse 31
  सीता त्वया हीना  चाहमपि राघव मुहूर्तमपि जीवावो जलान्मत्स्याविनोद्धृतौ
Verse 32
नहि तातं  शत्रुघ्नं  सुमित्रां परन्तप द्रष्टुमिच्छेयमद्याहं स्वर्गं चापि त्वया विना
Verse 33
ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ
Verse 34
 लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात् समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः
Verse 35
ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्धनौ  तौ भयं सम्भ्रममभ्युपेयतु र्यथैव सिंहौ गिरिसानुगोचरौ
0:000:00
Speed: