🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 52

Sarga 52

102 verses

Verse 1
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
Verse 2
भास्करोदयकालोऽयं गता भगवती निशा असौ सुकृष्णो विहगः कोकिलस्तात कूजति
Verse 3
बर्हिणानां  निर्घोषः श्रूयते नदतां वने तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्
Verse 4
विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः गुहमामन्त्र्य सूतं  सोऽतिष्ठद्भ्रातुरग्रतः
Verse 5
 तु रामस्य वचनं निशम्य प्रतिगृह्य  स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्
Verse 6
अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम् सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर
Verse 7
तं निशम्य समादेशं गुहामात्यगणो महान् उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्
Verse 8
ततः  प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् उपस्थितेयं नौर्देव भूयः किं करवाणि ते
Verse 9
तवामरसुतप्रख्य तर्तुं सागरगां नदीम् नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत
Verse 10
अथोवाच महातेजा रामो गुहमिदं वचः कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति
Verse 11
ततः कलापान् सन्नह्य खड्गौ बध्वा  धन्विनौ जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ
Verse 12
राममेव तु धर्मज्ञमुपगम्य विनीतवत् किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्
Verse 13
ततोऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तमदक्षिणेन सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः
Verse 14
निवर्तस्वेत्युवाचैव ह्येतावद्धि कृतं मम रथं विहाय पद्भ्यां तु गमिष्यामि महावनम्
Verse 15
आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः  सारथिः सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्
Verse 16
नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने
Verse 17
 मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्
Verse 18
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव
Verse 19
वयं खलु हता राम ये त्वयाप्युपवञ्चिताः कैकेय्या वशमेष्यामः पापाया दुःखभागिनः
Verse 20
इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्
Verse 21
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्
Verse 22
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये यथा दशरथो राजा मां  शोचेत्तथा कुरु
Verse 23
शोकोपहतचेताश्च वृद्धश्च जगतीपतिः कामभावावसन्नश्च तस्मादेतद्ब्रवीमि ते
Verse 24
यद्यदाज्ञापयेत्किञ्चित्स महात्मा महीपतिः कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया
Verse 25
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः यदेषां सर्वकृत्येषु मनो  प्रतिहन्यते
Verse 26
यद्यथा  महाराजो नालीकमधिगच्छति   ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा
Verse 27
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः
Verse 28
नैवाहमनुशोचामि लक्ष्मणो   मैथिली अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति 
Verse 29
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः लक्ष्मणं मां  सीतां  द्रक्ष्यसे क्षिप्रमागतान्
Verse 30
एवमुक्त्वा तु राजानं मातरं  सुमन्त्र मे अन्याश्च देवीस्सहिताः कैकेयीं  पुनः पुनः आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम् सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य 
Verse 31
एवमुक्त्वा तु राजानं मातरं  सुमन्त्र मे अन्याश्च देवीस्सहिताः कैकेयीं  पुनः पुनः आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम् सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य 
Verse 32
ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय आगतश्चापि भरतः स्थाप्यो नृपमते पदे
Verse 33
भरतं  परिष्वज्य यौवराज्येऽभिषिच्य  अस्मत्सन्तापजं दुःखं  त्वामभिभविष्यति
Verse 34
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः
Verse 35
यथा  तव कैकेयी सुमित्रा  विशेषतः तथैव देवी कौशल्या मम माता विशेषतः
Verse 36
तातस्य प्रियकामेन यौवराज्यमपेक्षता लोकयोरुभयोः शक्यं त्वया यत्सुखमेधितुम्
Verse 37
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्
Verse 38
यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि
Verse 39
कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् तव तावद्वियोगेन पुत्रशोकाकुलामिव
Verse 40
सराममपि तावन्मे रथं दृष्ट्वा तदा जनः विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी
Verse 41
दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् सूतावशेषं स्वं सैन्यं हतवीरमिवाऽहवे
Verse 42
दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् चिन्तयन्तोऽद्य नूनं त्वां निराहाराः कृताः प्रजाः
Verse 43
दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्
Verse 44
आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने सरथं मां निशाम्यैव कुर्युः शतगुणं ततः
Verse 45
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति
Verse 46
असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः
Verse 47
मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः
Verse 48
तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ वनवासानुयानाय मामनुज्ञातुमर्हसि
Verse 49
यदि मे याचमानस्य त्यागमेव करिष्यसि सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया
Verse 50
भविष्यन्ति वने यानि तपोविघ्नकराणि ते रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव
Verse 51
त्वत्कृते  मयाऽवाप्तं रथचर्याकृतं सुखम् आशंसे त्वत्कृते नाहं वनवासकृतं सुखम्
Verse 52
प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनन्तरः
Verse 53
इमे चापि हया वीर यदि ते वनवासिनः परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्
Verse 54
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्
Verse 55
 हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा
Verse 56
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः यदनेन रथेनैव त्वां वहेयं पुरीं पुनः
Verse 57
चतुर्दश हि वर्षाणि सहितस्य त्वया वने क्षणभूतानि यास्यन्ति शतसङ्ख्यान्यतोऽन्यथा
Verse 58
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि भक्तं भृत्यं स्थितं स्थित्यां त्वं  मां हातुमर्हसि
Verse 59
एवं बहुविधं दीनं याचमानं पुनः पुनः रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्
Verse 60
जानामि परमां भक्तिं मयि ते भर्तृवत्सल शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः
Verse 61
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः
Verse 62
परितुष्टा हि सा देवी वनवासं गते मयि राजानं नातिशङ्केत 'मिथ्यावादी'ति धार्मिकम्
Verse 63
एष मे प्रथमः कल्पो यदम्बा मे यवीयसी भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्
Verse 64
मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज सन्दिष्टश्चासि यानर्थांस्तां स्तान् ब्रूयास्तथा तथा
Verse 65
इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्
Verse 66
नेदानीं गुह योग्योऽयं वासो मे सजने वने आवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः
Verse 67
सोऽहं गृहीत्वा नियमं तपस्वि जनभूषणम् हितकामः पितुर्भूयः सीताया लक्ष्मणस्य  जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय
Verse 68
तत् क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः
Verse 69
दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् तौ तदा चीरवसनौ जटामण्डलधारिणौ आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ
Verse 70
दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् तौ तदा चीरवसनौ जटामण्डलधारिणौ आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ
Verse 71
ततो वैखानसं मार्गमास्थितः सह लक्ष्मणः व्रतमादिष्टवान् रामः सखायं गुहमब्रवीत्
Verse 72
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा भवेथा गुह राज्यं हि दुरारक्षतमं मतम्
Verse 73
ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः जगाम तूर्णमव्यग्रः सभार्यः सह लक्ष्मणः
Verse 74
 तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्
Verse 75
आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्
Verse 76
 भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् आरोप्य मैथिलीं पूर्वमारुरोहाऽऽत्मवां स्ततः
Verse 77
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्
Verse 78
राघवोऽपि महातेजा नावमारुह्य तां ततः ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः
Verse 79
आचम्य  यथाशास्त्रं नदीं तां सह सीतया प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः
Verse 80
अनुज्ञाय सुमन्त्रं  सबलं चैव तं गुहम् आस्थाय नावं रामस्तु चोदयामास नाविकान्
Verse 81
ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्
Verse 82
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्
Verse 83
पुत्रो दशरथस्यायं महाराजस्य धीमतः निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः चतुर्दश हि वर्षाणि समग्राण्युष्य कानने भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ततस्त्वां देवि सुभगे क्षेमेण पुनरागता यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी
Verse 84
पुत्रो दशरथस्यायं महाराजस्य धीमतः निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः चतुर्दश हि वर्षाणि समग्राण्युष्य कानने भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ततस्त्वां देवि सुभगे क्षेमेण पुनरागता यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी
Verse 85
पुत्रो दशरथस्यायं महाराजस्य धीमतः निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः चतुर्दश हि वर्षाणि समग्राण्युष्य कानने भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ततस्त्वां देवि सुभगे क्षेमेण पुनरागता यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी
Verse 86
त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे
Verse 87
सा त्वां देवि नमस्यामि प्रशंसामि  शोभने प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते गवां शतसहस्राणि वस्त्राण्यन्नं  पेशलम् ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया
Verse 88
सा त्वां देवि नमस्यामि प्रशंसामि  शोभने प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते गवां शतसहस्राणि वस्त्राण्यन्नं  पेशलम् ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया
Verse 89
सुराघटसहस्रेण मांसभूतौदनेन  यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता
Verse 90
यानि त्वत्तीरवासीनि दैवतानि  सन्ति हि तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि 
Verse 91
पुनरेव महाबाहुर्मया भ्रात्रा  सङ्गतः अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे
Verse 92
तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्
Verse 93
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः प्रातिष्ठत सह भ्रात्रा वैदेह्या  परन्तपः
Verse 94
अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् भव संरक्षणार्थाय सजने विजनेऽपि वा
Verse 95
अवश्यं रक्षणं कार्यमदृष्टे विजने वने अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु
Verse 96
पृष्ठतोऽहं गमिष्यामि त्वां  सीतां  पालयन् अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ
Verse 97
 हि तावदतिक्रान्ता सुकरा काचन क्रिया अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति
Verse 98
प्रणष्टजनसम्बाधं क्षेत्रारामविवर्जितम् विषमं  प्रपातं  वनमद्य प्रवेक्ष्यति
Verse 99
श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः अनन्तरं  सीताया राघवो रघुनन्दनः
Verse 100
गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य अध्वप्रकर्षाद्विनिवृत्तदृष्टि र्मुमोच बाष्पं व्यथित स्तपस्वी
Verse 101
 लोकपालप्रतिमप्रभाववां स्तीर्त्वा महात्मा वरदो महानदीम् ततः समृद्धान् शुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत्
Verse 102
तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम्
0:000:00
Speed: