🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 51

Sarga 51

27 verses

Verse 1
तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत्
Verse 2
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्
Verse 3
उचितोऽयं जनस्सर्वः क्लेशानां त्वं सुखोचितः गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्
Verse 4
 हि रामात्प्रियतमो ममास्ति भुवि कश्चन ब्रवीम्येतदहं सत्यं सत्येनैव  ते शपे
Verse 5
अस्य प्रसादादाशंसे लोकेस्मिन् सुमुहद्यशः धर्मावाप्तिं  विपुलामर्थावाप्तिं  केवलम्
Verse 6
सोऽहं प्रियसखं रामं शयानं सह सीतया रक्षिष्यामि धनुष्पाणि स्सर्वतो ज्ञातिभि स्सह
Verse 7
 हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतस्सदा चतुरङ्गं ह्यपिबलं सुमहत्प्रसहेमहि
Verse 8
लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ नात्र भीता वयं सर्वे धर्ममेवानुपश्यता
Verse 9
कथं दशरथौ भूमौ शयाने सह सीतया शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
Verse 10
यो  देवासुरैः सर्वैः शक्यः प्रसहितुं युधि तं पश्य सुखसंविष्टं तृणेषु सह सीतया
Verse 11
यो मन्त्रतपसा लब्धो विविधैश्च पराश्रमैः एको दशरथस्येष्टः पुत्रः सदृशलक्षणः अस्मिन् प्रव्राजिते राजा  चिरं वर्तयिष्यति विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
Verse 12
यो मन्त्रतपसा लब्धो विविधैश्च पराश्रमैः एको दशरथस्येष्टः पुत्रः सदृशलक्षणः अस्मिन् प्रव्राजिते राजा  चिरं वर्तयिष्यति विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
Verse 13
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः निर्घोषोपरतं चातो मन्ये राजनिवेशनम्
Verse 14
कौशल्या चैव राजा  तथैव जननी मम नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्
Verse 15
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया तद्दुःखं यत्तु कौशल्या वीरसूर्विनशिष्यति
Verse 16
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा राजव्यसनसंसृष्टा सा पुरी विनशिष्यति
Verse 17
कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः
Verse 18
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति अनन्तरं  माताऽपि मम नाशमुपैष्यति
Verse 19
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् राज्ये राममनिक्षिप्य पिता मे विनशिष्यति
Verse 20
सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
Verse 21
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् हर्म्यप्रासादसम्पन्नाम् गणिकावरशोभिताम् रथाश्वगजसम्बाधां तूर्यनादविनादिताम् सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् सुखिता विचरिष्यन्ति राजधानीं पितुर्मम
Verse 22

Verse 23

Verse 24
अपि जीवेद्दशरथो वनवासात्पुनर्वयम् प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम्
Verse 25
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि
Verse 26
परिदेवयमानस्य दुखार्तस्य महात्मनः तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत
Verse 27
तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः
0:000:00
Speed: