🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 50

Sarga 50

27 verses

Verse 1
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्
Verse 2
आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते दैवतानि  यानि त्वां पालयन्ति वसन्ति 
Verse 3
निवृत्तवनवासस्त्वामनृणो जगतीपतेः पुनर्द्रक्ष्यामि मात्रा  पित्रा  सह सङ्गतः
Verse 4
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम्
Verse 5
अनुक्रोशो दया चैव यथार्हं मयि वः कृतः चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये
Verse 6
तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित्
Verse 7
तथा विलपतां तेषामतृप्तानां  राघवः अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे
Verse 8
ततो धान्यधनोपेतान् दानशीलजनान् शिवान् अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् लक्षणीयान्नरेन्द्राणां ब्रह्मघोषाभिनादितान् रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत
Verse 9

Verse 10

Verse 11
मध्येनमुदितं स्फीतं रम्योद्यानसमाकुलम् राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः
Verse 12
तत स्त्रिपथगां दिव्यां शिवतोयामशैवलाम् ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम्
Verse 13
आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम् कालेऽप्सरोभिर्हृष्टाभि स्सेविताम्भोह्रदां शिवाम्
Verse 14
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् नानागन्धर्वपत्नीभि स्सेवितां सततं शिवाम्
Verse 15
देवाऽऽक्रीडशताकीर्णां देवोद्यानशतायुताम् देवार्थमाकाशगमां विख्यातां देवपद्मिनीम्
Verse 16
जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम्
Verse 17
क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम्
Verse 18
देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम्
Verse 19
हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् सदा मदैश्च विहगैरभिसन्नादितान्तराम्
Verse 20
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम् क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम्
Verse 21
क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् नानापुष्परजोध्वस्तां समदामिव  क्वचित्
Verse 22
व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् दिशागजैर्वनगजै र्मत्तैश्च वरवारणैः देवोपवाह्यैश्च मुहुस्सन्नादितवनान्तराम्
Verse 23
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्
Verse 24
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम्
Verse 25
विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् तां शङ्करजटाजूटाद्भ्रष्टां सागरतेजसा समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् आससाद महाबाहुः शृङ्गिबेरपुरं प्रति
Verse 26
विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् तां शङ्करजटाजूटाद्भ्रष्टां सागरतेजसा समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् आससाद महाबाहुः शृङ्गिबेरपुरं प्रति
Verse 27
तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे
0:000:00
Speed: