🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 49

Sarga 49

18 verses

Verse 1
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्
Verse 2
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा उपास्य शिवां सन्ध्यां विषयान्तं व्यगाहत
Verse 3
ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि  पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः शृण्वन् वचो मनुष्याणां ग्रामसंवासवासिनाम्
Verse 4
राजानं धिग्दशरथं कामस्य वशमागतम् हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम्
Verse 5

Verse 6

Verse 7
कथं नाम महाभागा सीता जनकनन्दिनी सदा सुखेष्वभिरता दुःखान्यनुभविष्यति
Verse 8
अहो दशरथो राजा निस्नेहः स्वसुतं प्रियम् प्रजानामनघं रामं परित्यक्तुमिहेच्छति
Verse 9
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः
Verse 10
ततो वेदश्रुतिं नाम शिववारिवहां नदीम् उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्
Verse 11
गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् गोमतीं गोयुतानूपामतरत्सागरङ्गमाम्
Verse 12
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्
Verse 13
 महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्
Verse 14
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः हंसमत्तस्वरश्श्रीमानुवाच पुरुषर्षभः
Verse 15
कदाऽहं पुनरागम्य सरय्वा पुष्पिते वने मृगयां पर्यटिष्यामि मात्रा पित्रा  सङ्गतः
Verse 16
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने रतिर्ह्येषातुला लोके राजर्षिगणसम्मता
Verse 17
राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने काले कृतां तां मनुजैर्घन्विनामभिकाङ्क्षिताम्
Verse 18
 तमध्वानमैक्ष्वाकस्सूतं मधुरया गिरा तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्
0:000:00
Speed: