Book 2 • Chapter 48
Sarga 48
37 verses
Verse 1
तेषामेवं विषण्णानां पीडितानामतीव च बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया अनुगम्य निवृत्तानां रामं नगरवासिनाम् उद्गतानीव सत्वानि बभूवुरमनस्विनाम्
Verse 2
तेषामेवं विषण्णानां पीडितानामतीव च बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया अनुगम्य निवृत्तानां रामं नगरवासिनाम् उद्गतानीव सत्वानि बभूवुरमनस्विनाम्
Verse 3
स्वं स्वं निलयमागम्य पुत्रदारैस्समावृता अश्रूणि मुमुचुस्सर्वे बाष्पेण पिहिताननाः
Verse 4
न चाहृष्यन् नचामोदन् वणिजो न प्रसारयन् न चाशोभन्त पण्यानि नापचन् गृहमेधिनः
Verse 5
नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
Verse 6
गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्
Verse 7
किं नु तेषां गृहैः कार्यं किं दारै: किं धनेन वा पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम्
Verse 8
एकः सत्पुरुषो लोके लक्ष्मण स्सह सीतया योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने
Verse 9
आपगाः कृतपुण्यास्ता पद्मिन्यश्च सरांसि च येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि
Verse 10
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः आपगाश्च महानूपाः सानुमन्तश्च पर्वताः
Verse 11
काननं वापि शैलं वा यं रामोऽधिगमिष्यति प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्
Verse 12
विचित्रकुसुमापीडा बहुमञ्जरि धारिणः राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः
Verse 13
अकाले चापि मुख्यानि पुष्पाणि च फलानि च दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्
Verse 14
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्
Verse 15
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् यत्र रामो भयं नात्र नास्ति तत्र पराभवः
Verse 16
स हि शूरो महाबाहुः पुत्रो दशरथस्य च पुरा भवति नोदूरादनुगच्छाम राघवम्
Verse 17
पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः स हि नाथो जनस्यास्य स गति स्सपरायणम्
Verse 18
वयं परिचरिष्यामः सीतां यूयं तु राघवम् इति पौरस्त्रियो भर्तृ़न् दुखार्तास्तत्तदब्रुवन्
Verse 19
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति सीता नारीजनस्यास्य योगक्षेमं करिष्यति
Verse 20
को न्वनेनाऽप्रतीतेन सोत्कण्ठितजनेन च सम्प्रियेतामनोज्ञेन वासेन हृतचेतसा
Verse 21
कैकेय्या यदि चे द्राज्यं स्यादधर्म्यमनाथवत् न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः
Verse 22
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् कं सा परिहरेदन्यं कैकेयी कुलपांसनी
Verse 23
कैकेय्या न वयं राज्ये भृतका निवसेमहि जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे
Verse 24
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्
Verse 25
उपद्रुतमिदं सर्वमनालम्बमनायकम् कैकेय्या हि कृते सर्वं विनाशमुपयास्यति
Verse 26
न हि प्रव्रजिते रामे जीविष्यति महीपतिः मृते दशरथे व्यक्तं विलापस्तदनन्तरम्
Verse 27
ते विषं पिबतालोड्य क्षीणपुण्या स्सुदुर्गताः राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत
Verse 28
मिथ्याप्रव्राजितो राम स्ससीत स्सहलक्ष्मणः भरते सन्निसृष्टास्स्म स्सौनिके पशवो यथा
Verse 29
पूर्णचन्द्रानन श्श्यामो गूढजत्रुररिन्दमः आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः पूर्वाभिभाषी मधुर स्सत्यवादी महाबलः सौम्यस्सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः शोभयिष्यत्यरण्यानि विचरन् स महारथः
Verse 30

Verse 31

Verse 32
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः चुक्रुशु र्दुःखसन्तप्ता मृत्योरिव भयागमे
Verse 33
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् जगामास्तं दिनकरो रजनी चाभ्यवर्तत
Verse 34
नष्टज्वलनसन्तापा प्रशान्ताध्यायसत्कथा तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ
Verse 35
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम्
Verse 36
तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते विलप्य दीना रुरुदुर्विचेतस स्सूतैर्हि तासामधिको हि सोऽभवत्
Verse 37
प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया तदा ह्ययोध्या नगरी बभूव सा महार्णव स्सङ्क्षपितोदको यथा
0:000:00
Speed: