Book 2 • Chapter 47
Sarga 47
19 verses
Verse 1
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः
Verse 2
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः
Verse 3
ते विषादार्तवदना रहितास्तेन धीमता कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः
Verse 4
धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्
Verse 5
कथं नाम महाबाहु स्स तथावितथक्रियः भक्तं जनं परित्यज्य प्रवासं राघवो गतः
Verse 6
यो नः सदा पालयति पिता पुत्रानिवौरसान् कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः
Verse 7
इहैव निधनं यामो महाप्रस्थानमेव वा रामेण रहितानां हि किमर्थं जीवितं हि नः
Verse 8
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम्
Verse 9
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः नीत स्स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्
Verse 10
सा नूनं नगरी दीना दृष्ट्वाऽस्मान् राघवं विना भविष्यति निरानन्दा सस्त्रीबालवयोधिका
Verse 11
निर्यातास्तेन वीरेण सह नित्यं जितात्मना विहीनास्तेन च पुनः कथं पश्याम तां पुरीम्
Verse 12
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः
Verse 13
ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः मार्गनाशाद्विषादेन महता समभिप्लुताः
Verse 14
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः किमिदं किं करिष्यामो दैवेनोपहता इति
Verse 15
ततो यथागतेनैव मार्गेण क्लान्तचेतसः अयोध्यामागमन्सर्वे पुरीं व्यथितसज्जनाम्
Verse 16
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः
Verse 17
एषा रामेण नगरी रहिता नातिशोभते आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा
Verse 18
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् अपश्यन्निहतानन्दं नगरं ते विचेतसः
Verse 19
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः
0:000:00
Speed: