Book 2 • Chapter 46
Sarga 46
34 verses
Verse 1
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्
Verse 2
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि
Verse 3
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः यथानिलयमायद्भिर्निलीनानि मृगद्विजैः
Verse 4
अद्यायोध्या तु नगरी राजधानी पितुर्मम सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः
Verse 5
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः त्वां च मां च नरव्याघ्र शत्रुघ्न भरतौ तथा
Verse 6
पितरं चानुशोचामि मातरं च यशस्विनीम् अपि वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः
Verse 7
भरतः खलु धर्मात्मा पितरं मातरं च मे धर्मार्थकामसहितैर्वाक्यैर्वाश्वासयिष्यति
Verse 8
भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः नानुशोचामि पितरं मातरं चापि लक्ष्मण
Verse 9
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
Verse 10
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् एतध्दि रोचते मह्यं वन्येऽपि विविधे सति
Verse 11
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह
Verse 12
सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः
Verse 13
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
Verse 14
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् रामः सौमित्रिणा सार्धं सभार्यस्संविवेश ह
Verse 15
सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान् गुणान्
Verse 16
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
Verse 17
गोकुलाकुलतीरायास्तमसाया विदूरतः अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह
Verse 18
उत्थाय स महातेजाः प्रकृतीस्ता निशाम्य च अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
Verse 19
अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्
Verse 20
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने अपि प्राणान्न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
Verse 21
यावदेव तु संसुप्ता स्तावदेव वयं लघु रथमारुह्य गच्छामः पन्थानमकुतोभयम्
Verse 22
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः
Verse 23
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः न तु खल्वात्मना योज्या दुःखेन पुरवासिनः
Verse 24
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिवस्थितम् रोचते मे तथा प्राज्ञ क्षिप्र मारुह्यतामिति
Verse 25
अथ रामोऽब्रवीच्छ्रीमान्सुमन्त्रं युज्यतां रथः गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो
Verse 26
सूतस्तत स्सत्त्वरितः स्यन्दनं तैर्हयोत्तमैः योजयित्व्राऽथ रामाय प्राञ्जलिः प्रत्यवेदयत्
Verse 27
अयं युक्तो महाबाहो रथस्ते रथिनां वर त्वमारोहस्व भद्रं ते ससीत स्सहलक्ष्मणः
Verse 28
तं स्यन्दनमधिष्ठाय राघव स्सपरिच्छदः शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्
Verse 29
स सन्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् प्रापद्यत महामार्गमभयं भयदर्शिनाम्
Verse 30
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः यथा न विद्युः पौरा मां तथा कुरु समाहितः
Verse 31
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः यथा न विद्युः पौरा मां तथा कुरु समाहितः
Verse 32
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
Verse 33
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम्
Verse 34
तत स्समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्य निमित्तदर्शनात्
0:000:00
Speed: