🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 45

Sarga 45

33 verses

Verse 1
अनुरक्ता महात्मानं रामं सत्यपराक्रमम् अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
Verse 2
निवर्तितेऽपि  बलात्सुहृद्वर्गे  राजनि नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
Verse 3
अयोध्यानिलयानां हि पुरुषाणां महायशाः बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः
Verse 4
 याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत
Verse 5
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव
Verse 6
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्
Verse 7
 हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः करिष्यति यथावद्वः प्रियाणि  हितानि 
Verse 8
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः अनुरूपः  वो भर्ता भविष्यति भयापहः
Verse 9
 हि राजगुणैर्युक्तो युवराजः समीक्षितः अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
Verse 10
  सन्तप्येद्यथा चासौ वनवासं गते मयि महाराजस्तथा कार्यो मम प्रियचिकीर्षया
Verse 11
यथा यथा दाशरथि र्धर्म एवास्थितोऽभवत् तथा तथा प्रकृतयो रामं पतिमकामयन्
Verse 12
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम्
Verse 13
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा वयः प्रकम्पशिरसो दूरादूचुरिदं वचः
Verse 14
वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः निवर्तध्वं  गन्तव्यं हिता भवत भर्तरि
Verse 15
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः
Verse 16
धर्मतः  विशुद्धात्मा वीरः शुभदृढव्रतः उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्
Verse 17
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् अवेक्ष्य सहसा रामो रथादवततार 
Verse 18
पद्भ्यामेव जगामाथ ससीत स्सहलक्ष्मणः सन्निकृष्टपदन्यासो रामो वनपरायणः
Verse 19
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः  शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
Verse 20
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः
Verse 21
ब्राह्मण्यं सर्वमेतत्त्वां ब्रह्मण्यमनुगच्छति द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी
Verse 22
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये
Verse 23
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः
Verse 24
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी त्वत्कृते सा कृता वत्स वनवासानुसारिणी
Verse 25
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः
Verse 26
 पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्मपथे स्थितम्
Verse 27
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः शिरोभिर्निभृताचार महीपतनपांसुलैः
Verse 28
बहूनां वितता यज्ञा द्विजानां  इहागताः तेषां समाप्तिरायत्ता तव वत्स निवर्तने
Verse 29
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि  याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय
Verse 30
अनुगन्तुमशक्ता स्त्वां मूलैरुद्धतवेगिनः उन्नता वायुवेगेन विक्रोशन्तीव पादपाः
Verse 31
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्
Verse 32
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ददृशे तमसा तत्र वारयन्तीव राघवम्
Verse 33
ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान्हयान्सम्परिवर्त्य शीघ्रम् पीतोदकांस्तोयपरिप्लुताङ्गा नचारयद्वै तमसाविदूरे
0:000:00
Speed: