Book 2 • Chapter 44
Sarga 44
31 verses
Verse 1
विलपन्ती तथा तां तु कौसल्यां प्रमदोत्तमाम् इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्
Verse 2
तवार्ये सद्गुणैर्युक्तः पुत्र स्स पुरुषोत्तमः किं ते विलपितेनैवं कृपणं रुदितेन वा
Verse 3
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् शिष्टैराचरिते सम्यक्छश्वत्प्रेत्यफलोदये रामो धर्मे स्थित श्रेष्ठो न स शोच्यः कदाचन
Verse 4
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् शिष्टैराचरिते सम्यक्छश्वत्प्रेत्यफलोदये रामो धर्मे स्थित श्रेष्ठो न स शोच्यः कदाचन
Verse 5
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः
Verse 6
अरण्यवासे यद्दुःखं जानती वै सुखोचिता अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्
Verse 7
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः
Verse 8
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् न गात्रमंशुभि स्सूर्य स्सन्तापयितुमर्हति
Verse 9
शिवस्सर्वेषु कालेषु काननेभ्यो विनिस्सृतः राघवं युक्तशीतोष्णस्सेविष्यति सुखोऽनिलः
Verse 10
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् रश्मिभि स्संस्पृशन् शीतैश्चन्द्रमाह्लादयिष्यति
Verse 11
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः असन्त्रस्तोऽप्यरणस्थो वेश्मनीव निवत्स्यति
Verse 12
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः असन्त्रस्तोऽप्यरणस्थो वेश्मनीव निवत्स्यति
Verse 13
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः कथं न पृथिवी तस्य शासने स्थातुमर्हति
Verse 14
या श्री श्शौर्यं च रामस्य या च कल्याणसत्वता निवृत्तारण्यवास स्स क्षिप्रं राज्यमवाप्स्यति
Verse 15
सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्नि प्रभोः प्रभुः श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा दैवतं दैवतानां च भूतानां भूतसत्तमः तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे
Verse 16
सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्नि प्रभोः प्रभुः श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा दैवतं दैवतानां च भूतानां भूतसत्तमः तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे
Verse 17
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः क्षिप्रं तिसृभिरेताभि स्सह रामोऽभिषेक्ष्यते
Verse 18
दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम् अयोध्यायां जनास्सर्वे शोकवेगसमाहताः 2.44.18 कुशचीरधरं देवं गच्छन्तमपराजितम् सीतेवानुगता लक्ष्मी स्तस्य किं नाम दुर्लभम्
Verse 19
दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम् अयोध्यायां जनास्सर्वे शोकवेगसमाहताः 2.44.18 कुशचीरधरं देवं गच्छन्तमपराजितम् सीतेवानुगता लक्ष्मी स्तस्य किं नाम दुर्लभम्
Verse 20
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्
Verse 21
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् जहिशोकं च मोहं च देवि सत्यं ब्रवीमि ते
Verse 22
शिरसा चरणावेतौ वन्दमानमनिन्दिते पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्
Verse 23
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः
Verse 24
मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्
Verse 25
त्वया शेषो जनश्चैव समाश्वास्यो यदाऽनघे किमिदानीमिदं देवि करोषि हृदि विक्लबम्
Verse 26
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवस्सुतः न हि रामात्परो लोके विद्यते सत्पथे स्थितः
Verse 27
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् मुदाऽश्रृ मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी
Verse 28
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
Verse 29
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् मुदाऽस्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम्
Verse 30
आश्वासयन्ती विविधैश्च वाक्यै र्वाक्योपचारे कुशलाऽनवद्या रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा
Verse 31
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्या: सद्यश्शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः
0:000:00
Speed: