Book 2 • Chapter 43
Sarga 43
21 verses
Verse 1
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् कौशल्या पुत्रशोकार्ता तमुवाच महीपतिम्
Verse 2
राघवे नरशार्दूले विषमुप्त्वाहिजिह्मगा विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी
Verse 3
विवास्य रामं सुभगा लब्धकामा समाहिता त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि
Verse 4
अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् कामकारो वरं दातुमपि दासं ममात्मजम्
Verse 5
पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना
Verse 6
गजराजगतिर्वीरो महाबाहुर्धनुर्धरः वनमाविशते नूनं सभार्य स्सह लक्ष्मणः
Verse 7
वने त्वदृष्टदुःखानां केकय्यानुमते त्वया त्यक्तानां वनवासाय कान्ववस्था भविष्यति
Verse 8
ते रत्नहीनास्तरुणाः फलकाले विवासिताः कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः
Verse 9
अपीदानीं स कालस्स्यान्मम शोकक्षय श्शिवः सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम्
Verse 10
श्रृत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी
Verse 11
कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि
Verse 12
कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव
Verse 13
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ
Verse 14
प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ उदग्रायुधनिस्त्रिंशौ सश्रृङ्गाविव पर्वतौ
Verse 15
कदासुमनसः कन्याद्विजातीनां फलानि च प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्
Verse 16
कदा परिणतो बुद्ध्या वयसा चामरप्रभः अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन्
Verse 17
निस्संशयं मया मन्ये पुरा वीर कदर्यया पातुकामेषु वत्सेषु मातृ़णां शातितास्स्तनाः
Verse 18
साहं गौरिव सिंहेन विवत्सा वत्सला कृता कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्
Verse 19
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे
Verse 20
न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्
Verse 21
अयं हि मां दीपयते समुत्थितः तनूजशोकप्रभवो हुताशनः महीमिमां रश्मिभिरुद्धतप्रभः यथा निदाघे भगवान् दिवाकरः
0:000:00
Speed: