Book 2 • Chapter 42
Sarga 42
35 verses
Verse 1
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी
Verse 2
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् तावद्व्यवर्धते वास्य धरण्यां पुत्रदर्शने
Verse 3
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले
Verse 4
तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया
Verse 5
तां नयेन च सम्पन्नो धर्मेण विनयेन च उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः
Verse 6
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी
Verse 7
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्
Verse 8
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् अनुजानामि तत्सर्वमस्मिन् लोके परत्र च
Verse 9
भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत्
Verse 10
अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् न्यवर्तत तदा देवी कौशल्या शोककर्शिता
Verse 11
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम्
Verse 12
निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा
Verse 13
विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् नगरान्तमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत्
Verse 14
वाहननां च मुख्यानां वहतां तं ममात्मजम् पदानि पथि दृश्यन्ते स महात्मा न दृश्यते
Verse 15
यः सुखेषूपधानेषु शेते चन्दनरूषितः वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते
Verse 16
यः सुखेषूपधानेषु शेते चन्दनरूषितः वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते
Verse 17
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः विनिश्श्वसन् प्रस्रवणात्करेणूनामिवर्षभः
Verse 18
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः राममुत्थाय गच्छन्तं लोकनाथमनाथवत्
Verse 19
सा नूनं जनकस्येष्टा सुता सुखसदोचिता कण्टकाक्रमणाक्लान्ता वनमद्य गमिष्यति
Verse 20
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्
Verse 21
सकामा भव कैकेयि विधवा राज्यमावस न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे
Verse 22
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्
Verse 23
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम्
Verse 24
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम्
Verse 25
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च
Verse 26
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः उवाच मृदुमन्दार्थं वचनं दीनमस्वरम्
Verse 27
कौशल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम् न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति
Verse 28
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः कौशल्याया गृहं तत्र न्यवेश्यत विनीतवत्
Verse 29
ततस्तस्य प्रविष्टस्य कौशल्याया निवेशनम् अधिरुह्यापि शयनं बभूव लुलितं मनः
Verse 30
पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम्
Verse 31
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् उच्चैस्स्वरेण चुक्रोश हा राघव जहासि माम्
Verse 32
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्
Verse 33
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः अर्धरात्रे दशरथः कौशल्यामिदमब्रवीत्
Verse 34
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते न त्वा पश्यामि कौसल्ये साधु मां पाणिना स्पृश
Verse 35
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम्
0:000:00
Speed: