Book 2 • Chapter 41
Sarga 41
21 verses
Verse 1
तस्मिन्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ आर्तशब्दोऽहि सञ्जज्ञे स्त्रीणामन्त:पुरे महान्
Verse 2
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः यो गतिश्शरणं चासीत्स नाथः क्व नु गच्छति
Verse 3
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् क्रुद्धान्प्रसादयन्सर्वान् समदुःखः क्व गज्छति
Verse 4
कौशल्यायां महातेजा यथा मातरि वर्तते तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति
Verse 5
कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् परित्राता जनस्यास्य जगतः क्व नु गच्छति
Verse 6
अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति
Verse 7
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
Verse 8
स तमन्तः पुरे घोरमार्तशब्दं महीपतिः पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत्सुदुःखितः
Verse 9
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत
Verse 10
व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
Verse 11
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि दारुणा स्सोममभ्येत्य ग्रहास्सर्वे व्यवस्थिताः
Verse 12
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे
Verse 13
कालिकानिलवेगेन महोदधिरिवोत्थितः रामे वनं प्रव्रजिते नगरं प्रचचाल तत्
Verse 14
दिशः पर्याकुलास्सर्वा स्तिमिरेणेव संवृताः न ग्रहो नापि नक्षत्रं प्रचकाशे नकिञ्चन
Verse 15
अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत् आहारे वा विहारे वा न कश्चिदकरोन्मनः
Verse 16
शोकपर्यायसन्तप्त स्सततं दीर्घमुच्छवसन् अयोध्यायां जनस्सर्व श्शुशोच जगतीपतिम्
Verse 17
बाष्पपर्याकुलमुखो राजमार्गगतो जनः न हृष्टो लक्ष्यते कश्चित्सर्व श्शोकपरायणः
Verse 18
न वाति पवन श्शीतो न शशी सौम्यदर्शनः न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्
Verse 19
अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्
Verse 20
ये तु रामस्य सुहृद स्सर्वे ते मूढचेतसः शोकभारेण चाक्रान्ता श्शयनं न जहुस्तदा
Verse 21
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च
0:000:00
Speed: