Book 2 • Chapter 40
Sarga 40
51 verses
Verse 1
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः उपसङ्गृह्य राजानं चक्रुर्दीना: प्रदक्षिणम्
Verse 2
तं चापि समनुज्ञाप्य धर्मज्ञस्सीतया सह राघव श्शोकसम्मूढो जननीमभ्यवादयत्
Verse 3
अअन्वक्षं लक्ष्मणो भ्रातुः कौशल्यामभ्यवादयत् अथ मातु स्सुमित्राया जग्राह चरणौ पुनः
Verse 4
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् हितकामा महाबाहुं मूध्नर्युपाघ्राय लक्ष्मणम्
Verse 5
सृष्टस्त्वं वनवासाय स्वनुरक्तस्सुहृज्जने रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
Verse 6
व्यसनी वा समृद्धो वा गतिरेष तवानघ एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्
Verse 7
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च
Verse 8
लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्
Verse 9
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् अयोध्यामटवीं विध्दि गच्छ तात यथासुखम्
Verse 10
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् विनीतो विनयज्ञश्च मातलिर्वासवं यथा
Verse 11
ररथमारोह भद्रं ते राजपुत्र महायशः क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि
Verse 12
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया तान्युपक्रमितव्यानि यानि देव्यासि चोदितः
Verse 13
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा आरुरोह वरारोहा कृत्वालङ्कारमात्मनः
Verse 14
अथो ज्वलनसङ्काशं चामीकरविभूषितम् तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ
Verse 15
वनवासं हि संख्याय वासांस्याभरणानि च भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ
Verse 16
तथैवायुधजालानि भ्रातृभ्यां कवचानि च रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् सीतातृतीयानारूढान् दृष्ट्वा दृष्टमचोदयत् सुमन्त्रस्सम्मतानश्वान् वायुवेगसमान्जवे
Verse 17
तथैवायुधजालानि भ्रातृभ्यां कवचानि च रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् सीतातृतीयानारूढान् दृष्ट्वा दृष्टमचोदयत् सुमन्त्रस्सम्मतानश्वान् वायुवेगसमान्जवे
Verse 18
प्रतियाते महारण्यं चिररात्राय राघवे बभूव नगरे मूर्छा बलमूर्छा जनस्य च
Verse 19
तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्
Verse 20
तत स्सबालवृद्धा सा पुरी परमपीडिता राममेवाभिदुद्राव घर्मार्ता सलिलं यथा
Verse 21
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः
Verse 22
संयच्छ वाजिनां रश्मीन् सूत याहि शनैश्शनैः मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति
Verse 23
आयसं हृदयं नूनं राममातुरसंशयम् यद्देवगर्भप्रतिमे वनं याति न भिद्यते
Verse 24
कृतकृत्या हि वैदेही छायेवानुगता पतिम् न जहाति रता धर्मे मेरुमर्कप्रभा यथा
Verse 25
अहो लक्ष्मण सिद्धार्थ स्सततं प्रियवादिनम् भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि
Verse 26
महत्येषा हि ते सिध्दिरेष चाभ्युदयो महान् एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि
Verse 27
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम्
Verse 28
अथ राजा वृत स्त्रीभिर्दीनाभिर्दीनचेतनः निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्
Verse 29
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः यथा नादः करेणूनां बद्धे महति कुञ्जरे
Verse 30
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत् परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
Verse 31
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः सूतं सञ्चोदयामास त्वरितं वाह्यतामिति
Verse 32
रामो याहीति सूतं तं तिष्ठेति स जनस्तदा उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः
Verse 33
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः पतितैरभ्यवहितं प्रशशाम महीरजः
Verse 34
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् प्रयाणे राघवस्यासीत्पुरं परमपीडितम्
Verse 35
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् मीनसङ्क्षोभचलितै स्सलिलं पङ्कजैरिव
Verse 36
दृष्ट्वा तु नृपति श्श्रीमानेकचित्तगतं पुरम् निपपातैव दुःखेन हतमूल इव द्रुमः
Verse 37
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
Verse 38
हा रामेति जनाः केचिद्राममातेति चापरे अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन्
Verse 39
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् राजानं मातरं चैव ददर्शानुगतौ पथि
Verse 40
स बद्ध इव पाशेन किशोरो मातरं यथा धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत
Verse 41
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम्
Verse 42
न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः
Verse 43
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् बद्धवत्सा यथा धेनू राममाताभ्यधावत
Verse 44
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम्
Verse 45
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम्
Verse 46
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा
Verse 47
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्
Verse 48
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः
Verse 49
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम्
Verse 50
यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् इत्यमात्या महाराजमूचुर्दशरथं वचः
Verse 51
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः
0:000:00
Speed: