Book 2 • Chapter 39
Sarga 39
41 verses
Verse 1
रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् समीक्ष्य सह भार्याभी राजा विगतचेतनः नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः
Verse 2
रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् समीक्ष्य सह भार्याभी राजा विगतचेतनः नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः
Verse 3
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः विललाप महाबाहू राममेवानुचिन्तयन्
Verse 4
मन्ये खलु मया पूर्वं विवत्सा बहवःकृताः प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्
Verse 5
न त्वेवानागते काले देहाच्च्यवति जीवितम् कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्
Verse 6
न त्वेवानागते काले देहाच्च्यवति जीवितम् कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्
Verse 7
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्
Verse 8
एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह
Verse 9
संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्
Verse 10
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः प्रापयैनं महाभागमितो जनपदात्परम्
Verse 11
एवं मन्ये गुणवतां गुणानां फलमुच्यते पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्
Verse 12
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः योजयित्वाऽययौ तत्र रथमश्वैरलङ्कृतम्
Verse 13
तं रथं राजपुत्राय सूत: कनकभूषितम् आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
Verse 14
राजा सत्वरमाहूय व्यापृतं वित्तसंञ्चये उवाच देशकालज्ञो निश्चितं सर्वत श्शुचिम्
Verse 15
वासांसि च महार्हाणि भूषणानि वराणि च वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय
Verse 16
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत्
Verse 17
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः
Verse 18
व्यराजयत वैदेही वेश्म तत्सुविभूषिता उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः
Verse 19
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् अनाचरन्ती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्
Verse 20
असत्य स्सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः
Verse 21
एष स्वभावो नारीणामनुभूय पुरा सुखम् अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि
Verse 22
असत्यशीला विकृता दुर्ग्राह्यहृदयास्सदा युवत्यः पापसंङ्कल्पाः क्षणमात्राद्विरागिणः
Verse 23
न कुलं न कृतं विद्या न दत्तं नापि सङ्ग्रहः स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः
Verse 24
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते
Verse 25
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा
Verse 26
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम्
Verse 27
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे
Verse 28
न मामसज्जनेनार्या समानयितुमर्हति धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा
Verse 29
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः नापतिस्सुखमेधेत या स्यादपि शतात्मजा
Verse 30
मितं ददाति हि पिता मितं माता मितं सुतः अमितस्य हि दातारं भर्तारं का न पूजयेत्
Verse 31
साहमेवं गता श्रेष्ठा श्रुतधर्मपरावरा आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम्
Verse 32
सीताया वचनं श्रुत्वा कौशल्या हृदयङ्गमम् शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्
Verse 33
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्
Verse 34
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति
Verse 35
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्
Verse 36
एतावदभिनीतार्थमुक्त्वा स जननीं वचः त्रयश्शतशतार्धाश्च ददर्शा वेक्ष्य मातरः
Verse 37
ता श्चापि स तथैवार्ता मातृ़र्दशरथात्मजः धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः
Verse 38
संवासात्परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः
Verse 39
वचनं राघवस्यैतध्दर्मयुक्तं समाहितम् शुश्रुवुस्ताः स्त्रियंस्सर्वा श्शोकोपहतचेतसः
Verse 40
जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः मानवेन्द्रस्य भार्याणामेवं वदति राघवे
Verse 41
मुरजपणवमेघघोषवत् दशरथवेश्म बभूव यत्पुरा विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम्
0:000:00
Speed: