Book 2 • Chapter 38
Sarga 38
18 verses
Verse 1
तस्यां चीरं वसानायां नाथवत्यामनाथवत् प्रचुक्रोश जनस्सर्वो धिक्त्वां दशरथं त्विति
Verse 2
तेन तत्र प्रणादेन दुःखितस्स महीपतिः चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः
Verse 3
स निःश्वस्योष्णमैक्ष्वाक स्तां भार्यामिदमब्रवीत् कैकेयि कुशचीरेण न सीता गन्तुमर्हति
Verse 4
सुकुमारी च बाला च सततं च सुखोचिता नेयं वनस्य योग्येति सत्यमाह गुरुर्मम
Verse 5
इयं हि कस्यापकरोति किञ्चि त्तपस्विनी राजवरस्य कन्या या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञाश्रमणीव काचित्
Verse 6
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः
Verse 7
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् तवया हि बाल्यात् प्रतिपन्नमेतत् तन्मां दहेद्वेणुमिवात्मपुष्पम्
Verse 8
रामेण यदि ते पापे किञ्चित्कृतमशोभनम् अपकारः क इह ते वैदेह्या दर्शितोऽधमे
Verse 9
मृगीवोत्फुल्लनयना मृदुशीला तपस्वीनी अपकारं कमिह ते करोति जनकात्मजा
Verse 10
ननु पर्याप्त मेतत्ते पापे रामविवासनम् किमेभिः कृपणैर्भूय: पातकैरपि ते कृतैः
Verse 11
प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता रामं यदभिषेकाय त्वमिहागतमब्रवीः
Verse 12
तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्
Verse 13
इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किञ्चित् भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसनेन मग्नः
Verse 14
एवं ब्रुवन्तं पितरं रामस्सम्प्रस्थितो वनम् अवाक्छिरसमासीनमिदं वचनमब्रवीत्
Verse 15
यं धार्मिक कौशल्या मम माता यशस्विनी वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते
Verse 16
मया विहीनां वरद प्रपन्नां शोकसागरम् अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि
Verse 17
पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता मां हि सञ्चिन्तयन्ती सा त्वयि जीवेत्तपस्विनी
Verse 18
इमां महेंन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्
0:000:00
Speed: