🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 37

Sarga 37

37 verses

Verse 1
महामात्रवचः श्रुत्वा रामो दशरथं तदा अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्
Verse 2
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः
Verse 3
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
Verse 4
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते सर्वाण्येवानुजानामि चीराण्येवाऽनयन्तु मे
Verse 5
खनित्रपिटके चोभे समानयत गच्छतः चतुर्दश वने वासं वर्षाणि वसतो मम
Verse 6
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् उवाच परिधत्स्वेति जनौघे निरपत्रपा
Verse 7
 चीरे पुरुषव्याघ्रः कैकेय्या प्रतिगृह्य ते सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त 
Verse 8
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे तापसाच्छादने चैव जग्राह पितुरग्रतः
Verse 9
अथाऽत्मपरिधानार्थं सीता कौशेयवासिनी समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव
Verse 10
सा व्यपत्रपमाणेव प्रगृह्य  सुदुर्मनाः कैकेयी कुशचीरे ते जानकी शुभलक्षणा अश्रुसम्पूर्ण नेत्रा  धर्मज्ञा धर्मदर्शिनी गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्
Verse 11
सा व्यपत्रपमाणेव प्रगृह्य  सुदुर्मनाः कैकेयी कुशचीरे ते जानकी शुभलक्षणा अश्रुसम्पूर्ण नेत्रा  धर्मज्ञा धर्मदर्शिनी गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्
Verse 12
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः
Verse 13
कृत्वा कण्ठे  सा चीरमेकमादाय पाणिना तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा
Verse 14
तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्
Verse 15
रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम्
Verse 16
ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् वत्स नैवं नियुक्तेयं वनवासे मनस्विनी
Verse 17
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् तावद्दर्शनमस्या नः सफलं भवतु प्रभो
Verse 18
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक नेयमर्हति कल्याणी वस्तुं तापसवद्वने
Verse 19
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी धर्मनित्यस्स्वयं स्थातुं  हीदानीं त्वमिच्छसि
Verse 20
तासामेवंविधा वाच शृण्वन् दशरथात्मजः बबन्धैव तदा चीरं सीतया तुल्यशीलया
Verse 21
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्
Verse 22
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि वञ्चयित्वा  राजानं  प्रमाणेऽवतिष्ठसे
Verse 23
 गन्तव्यं वनं देव्या सीतया शीलवर्जिते अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्
Verse 24
आत्मा हि दारास्सर्वेषां दारसङ्ग्रहवर्तिनाम् आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्
Verse 25
अथ यास्यति वैदेही वनं रामेण सङ्गता वयमप्यनुयास्यामः पुरं चेदं गमिष्यति
Verse 26
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः सहोपजीव्यं राष्ट्रं  पुरं  सपरिच्छदम्
Verse 27
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः वने वसन्तं काकुत्स्थ मनुवत्स्यति पूर्वजम्
Verse 28
तत श्शून्यां गतजनां वसुधां पादपै स्सह त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता
Verse 29
 हि तद्भविता राष्ट्रं यत्र रामो  भूपतिः तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति
Verse 30
 ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः
Verse 31
यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि पितृर्वंशचरित्रज्ञः सोऽन्यथा  करिष्यति
Verse 32
तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् लोके हि   विद्येत यो  राममनुव्रतः
Verse 33
द्रक्ष्यस्यद्यैव कैकेयी पशुव्यालमृगद्विजान् गच्छतस्सह रामेण पादपांश्च तदुन्मुखान्
Verse 34
अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्  चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्टः
Verse 35
एकस्य रामस्य वने निवास स्त्वया वृतःकेकयराजपुत्री विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण
Verse 36
यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री वस्त्रैश्च सर्वैस्सहितैर्विधानै र्नेयं वृता ते वरसम्प्रदाने
Verse 37
तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा
0:000:00
Speed: