🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 36

Sarga 36

33 verses

Verse 1
ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया सबाष्पमतिनिश्श्वश्य जगादेदं पुनः पुनः
Verse 2
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्
Verse 3
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः
Verse 4
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय
Verse 5
आयुधानि  मुख्यानि नागरा श्शकटानि  अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्य गोचराः
Verse 6
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति
Verse 7
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः तौ राममनुगच्छेतां वसन्तं निर्जने वने
Verse 8
यजन् पुण्येषु देशेषु विसृजं श्चाप्तदक्षिणाः ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने
Verse 9
भरतश्च महाबाहुरयोध्यां पालयिष्यति सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति
Verse 10
एवं ब्रुवति काकुत्स्थे कैकेय्या भय मागतम् मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत
Verse 11
सा विषण्णा  सन्त्रस्ता मुखेन परिशुष्यता राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्
Verse 12
राज्यं गतजनं साधो पीतमण्डां सुरामिव निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते
Verse 13
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणाम् राजा दशरथो वाक्यमुवाचायतलोचनाम्
Verse 14
वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते अनार्ये कृत्यमारब्धं किं  पूर्वमुपारुधः
Verse 15
तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्
Verse 16
वैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् असमञ्ज इति ख्यातं तथायं गन्तुमर्हति
Verse 17
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् व्रीडितश्च जनस्सर्व स्सा  तं नावबुध्यत
Verse 18
तत्र वृद्धो महामात्रस्सिद्धार्थो नाम नामतः शुचिर्बहुमतो राज्ञः कैकेयी मिदमब्रवीत्
Verse 19
असमञ्जो गृहीत्वा तु क्रीडतः पथि बालकान् सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः
Verse 20
तं दृष्ट्वा नागरा स्सर्वे कृद्धा राजानमब्रुवन् असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन
Verse 21
तानुवाच ततो राजा किन्निमित्तमिदं भयम् ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्
Verse 22
डक्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते
Verse 23
 तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया
Verse 24
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता
Verse 25
 फालपिटकं गृह्य गिरिदुर्गाण्यलोडयत् दिश स्सर्वास्त्वनुचरन्  यथा पापकर्मकृत्
Verse 26
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः रामः किमकरोत्पापं येनैवमुपरुध्यते
Verse 27
 हि कञ्चन पश्यामो राघवस्यागुणं वयम् दुर्लभो ह्यस्य निरय श्शशाङ्कस्येव कल्मषम्
Verse 28
अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे तमद्य ब्रूहि तत्वेन तदा रामो विवास्यताम्
Verse 29
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य  निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् 2.36.29
Verse 30
तदलं देवि रामस्य श्रिया विहतया त्वया लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने
Verse 31
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः शोकोपहतया वाचा कैकेयीमिदमब्रवीत्
Verse 32
एतद्वचो नेच्छसि पापवृत्ते हितं  जानासि ममात्मनो वा आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता
Verse 33
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं  सहैव राज्ञा भरतेन  त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्
0:000:00
Speed: