Book 2 • Chapter 35
Sarga 35
34 verses
Verse 1
ततो निर्धूय सहसा शिरो निश्श्वस्य चासकृत् पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाप्य च लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् कोपाभिभूतस्सहसा सन्तापमशुभं गतः मनः समीक्षमाणश्च सूतो दशरथस्य सः कम्पयन्निव कैकेय्या हृदयं वाक्छरैश्शितैः वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः कैकेय्या स्सर्वमर्माणि सुमन्त्रः प्रत्यभाषत
Verse 2

Verse 3

Verse 4

Verse 5
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते
Verse 6
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः
Verse 7

Verse 8
मावमंस्था दशरथं भर्तारं वरदं पतिम् भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते
Verse 9
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये इक्ष्वाकुकुलनाथेऽस्मिं स्तल्लोपयितुमिच्छसि
Verse 10
राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् वयं तत्र गमिष्यामो रामो यत्र गमिष्यति
Verse 11
न हि ते विषये कश्चिद् र्ब्राह्मणो वस्तुमर्हति तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि
Verse 12
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम् त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा का प्रीती राज्यलाभेन तव देवि भविष्यति तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि
Verse 13

Verse 14
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् आचरन्त्या न विवृता सद्यो भवति मेदिनी
Verse 15
महाब्रह्मर्षिसृष्टाः वा ज्वलन्तो भीमदर्शनाः धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्
Verse 16
आम्रं छित्वा कुठारेण निम्बं परिचरेत्तु यः यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्
Verse 17
अभिजात्यं हि ते मन्ये यथा मातुस्तथैव च न हि निम्बात्स्रवेत् क्षैद्रं लोके निगदितं वचः
Verse 18
तव मातुरसद्ग्राहं विद्मः पूर्वं यथाश्रुतम् पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः तेन तिर्यग्गतानां च भूतानां विदितं वचः
Verse 19

Verse 20
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः पितुस्ते विदितो भाव स्स तत्र बहुधाऽहसत्
Verse 22
नृपश्चोवाच तां देवीं देवि शंसामि ते यदि ततो मे मरणं सद्यो भविष्यति न संशयः
Verse 23
माता ते पितरं देवि ततः केकयमब्रवीत् शंस मे जीव वा मा वा न मामपहसिष्यसि
Verse 24
प्रियया च तथोक्त स्सन् केकयः पृथिवीपतिः तस्मै तं वरदायार्थं कथयामास तत्त्वतः
Verse 25
ततः स्स वरदः साधुराजानं प्रत्यभाषत म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते
Verse 26
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः मातरं ते निरस्याशु विजहार कुबेरवत्
Verse 27
तथा त्वमपि राजानं दुर्जनाचरिते पथि असद्ग्राहमिमं मोहात्कुरुषे पापदर्शिनि
Verse 28
सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा पितृन् समनुजायन्ते नरा मातरमङ्गनाः
Verse 29
नैवं भव गृहाणेदं यदाह वसुधाधिपः भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव
Verse 30
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् भर्तारं लोकभर्तारमसद्धर्ममुपादधाः
Verse 31
न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः श्रीमान्दशरथो राजा देवि राजीवलोचनः
Verse 32
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्
Verse 33
परिवादो हि ते देवि महाल्लोके चरिष्यति यदि रामो वनं याति विहाय पितरं नृपम्
Verse 34
स राज्यं राघवः पातु भव त्वं विगतज्वरा न हि ते राघवादन्यः क्षमः पुरवरे वसेत्
Verse 35
रामे हि यौवराज्यस्थे राजा दशरथो वनम् प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्
0:000:00
Speed: