🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 34

Sarga 34

61 verses

Verse 1
ततः कमलपत्राक्षः श्यामो निरुपमो महान् उवाच राम स्तं सूतं पितुराख्याहि मामिति
Verse 2
 रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श 
Verse 3
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् तटाकमिव निस्तोयमपश्यज्जगतीपतिम्
Verse 4
आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्
Verse 5
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत्
Verse 6
अयं  पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ब्राह्मणेभ्यो धनं दत्वा सर्वञ्चैवोपजीविनाम्
Verse 7
 त्वा पश्यतु भद्रं ते रामस्सत्यपराक्रमः सर्वान् सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते
Verse 8
गमिष्यति महारण्यं तं पश्य जगतीपते वृतं राजगुणै स्सर्वैरादित्यमिव रश्मिभिः
Verse 9
 सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्
Verse 10
सुमंन्त्रानय मे दारान् ये केचिदिह मामकाः दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम्
Verse 11
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम्
Verse 12
एवमुक्ताः स्त्रिय स्सर्वाः सुमन्त्रेण नृपाज्ञया प्रचक्रमु स्तद्भवनं भर्तुराज्ञाय शासनम्
Verse 13
अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः
Verse 14
आगतेषु  दारेषु समवेक्ष्य महीपतिः उवाच राजा तं सूतं सुमन्त्राऽनय मे सुतम्
Verse 15
 सूतो राममादाय लक्ष्मणं मैथिलीं तदा जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः
Verse 16
 राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् उत्पपातासनात्तूर्णमार्त स्त्रीजनसंवृतः
Verse 17
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः
Verse 18
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा
Verse 19
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि हा हा रामेति सहसा भूषणध्वनिमूर्छितः
Verse 20
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ पर्यंङ्के सीतया सार्धं रुदन्तः समवेशयन्
Verse 21
अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्
Verse 22
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्
Verse 23
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् कारणैर्बहुभि स्तथ्यैर्वार्यमाणौ  चेच्छतः
Verse 24
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद लक्ष्मणं मां  सीतां  प्रजापतिरिव प्रजाः
Verse 25
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्
Verse 26
अहं राघव कैकेय्या वरदानेन मोहितः अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्
Verse 27
एवमुक्तो नृपतिना रामो धर्मभृतां वरः प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
Verse 28
भवान्वर्ष सहस्राय पृथिव्या नृपते पतिः अहं त्वरण्येवत्स्यामि  मे कार्यं त्वयाऽनृतम्
Verse 29
नव पञ्च  वर्षाणि वनवासे विहृत्य ते पुनःपादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप
Verse 30
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्
Verse 31
श्रेयसे वृद्धये तात पुनरागमनाय  गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्
Verse 32
 हि सत्यात्मनस्तात धर्माभिमनस स्तव विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन
Verse 33
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा एकाहदर्शनेनापि साधु तावच्चराम्यहम्
Verse 34
मातरं मां  सम्पश्यन् वसेमामद्य शर्वरीम् तर्पित स्सर्वकामैस्त्वं श्वः काले साधयिष्यसि
Verse 35
दुष्करं क्रियते पुत्र सर्वथा राघव त्वया मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम्
Verse 36
 चैतन्मे प्रियं पुत्र शपे सत्येन राघव छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया
Verse 37
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः
Verse 38
 चैतदाश्चर्यतमं यत्तज्येष्ठस्सुतो मम अपानृतकथं पुत्र पितरं कर्तुमिच्छसि
Verse 39
अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्
Verse 40
प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान् प्रदास्यति अपक्रमणमेवातः सर्वकामैरहं वृणे
Verse 41
इयं सराष्ट्रा सजना धनधान्यसमाकुला मया विसृष्टा वसुधा भरताय प्रदीयताम्
Verse 42
वनवासकृता बुद्धिर्न  मेऽद्य चलिष्यति यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव
Verse 43
अहं निदेशं भवतो यथोक्तमनुपालयन् चतुर्दश समा वत्स्ये वने वनचरैस्सह
Verse 44
मा विमर्शो वसुमती भरताय प्रदीयताम्  हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् यथानिदेशं कर्तुं वै तवैव रघुनन्दन
Verse 45
मा विमर्शो वसुमती भरताय प्रदीयताम्  हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् यथानिदेशं कर्तुं वै तवैव रघुनन्दन
Verse 46
अपगच्छतु ते दु:खं माभूर्बाष्पपरिप्लुतः  हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः
Verse 47
नैवाहं राज्यमिच्छामि  सुखं   मेदिनीम् नैव सर्वानिमान् कामा न्नस्वर्गं नैव जीवितम्
Verse 48
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ प्रत्यक्षं तव सत्येन सुकृतेन  ते शपे
Verse 49
  शक्यं मया तात स्थातुं क्षणमपि प्रभो  शोकं धारयस्वेमं  हि मेऽस्ति विपर्ययः
Verse 50
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव मया चोक्तं व्रजामीति तत्सत्यमनुपालये
Verse 51
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते
Verse 52
पिता हि दैवतं तात देवतानामपि स्मृतम् तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः
Verse 53
चतुर्दशसु वर्षेषु गतेषु नरसत्तम पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम्
Verse 54
येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः  त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः
Verse 55
पुरं  राष्ट्रं  मही  केवला मया निसृष्टा भरताय दीयताम् अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्
Verse 56
मया निसृष्टां भरतो महीमिमां सशैलषण्डां सपुरां सकाननाम् शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्
Verse 57
 मे तथा पार्थिव धीयते मनो महत्सु कामेषु  चात्मनःप्रिये यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ
Verse 58
तदद्य नैवानघ राज्यमव्ययं  सर्वकामान्न सुखं  मैथिलीम्  जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा
Verse 59
फलानि मूलानि  भक्षयन्वने गिरींश्च पश्यन् सरितस्सरांसि  वनं प्रविश्यैव विचित्रपादपम् सुखी भविष्यामि तवास्तु निर्वृतिः
Verse 60
एवं  राजा व्यसनाभिपन्नः शोकेन दुःखेन  ताम्यमानः आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंञ्चित्
Verse 61
देव्यस्तत स्संरुरुदुस्समेता स्तां वर्जयित्वा नरदेवपत्नीम् रुदन् सुमन्त्रोऽऽपि जगाम मूर्छां हाहाकृतं तत्र बभूव सर्वम्
0:000:00
Speed: