🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 33

Sarga 33

31 verses

Verse 1
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
Verse 2
ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे मालादामभिराबद्धे सीतया समलङ्कृते
Verse 3
ततः प्रासादहर्म्याणि विमानशिखराणि  अधिरुह्य जनश्श्रीमानुदासीनो व्यलोकयत्
Verse 4
 हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः आरुह्य तस्मात्प्रासादान् दीनाः पश्यन्ति राघवम्
Verse 5
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा जनास्तदा ऊचुर्बहुविधा वाच श्शोकोपहतचेतसः
Verse 6
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः
Verse 7
ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्
Verse 8
या  शक्या पुरा द्रष्टुं भूतैराकाशगैरपि तामद्य सीतां पश्यन्ति राजमार्गगता जनाः
Verse 9
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् वर्षमुष्णं  शीतं  नेष्यन्त्याशु विवर्णताम्
Verse 10
अद्य नूनं दशरथस्सत्त्वमाविश्य भाषते  हि राजा प्रियं पुत्रं विवासयितुमर्हति
Verse 11
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्
Verse 12
अनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्
Verse 13
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात्
Verse 14
पीडया पीडितं सर्वं जगदस्य जगत्पतेः मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
Verse 15
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः पुष्पं फलं  पत्रं  शाखाश्चास्येतरे जनाः
Verse 16
ते लक्ष्मण इव क्षिप्रं सपत्न्य स्सहबान्धवाः गच्छन्तमनुगच्छामो येन गच्छति राघवः
Verse 17
उद्यानानि परित्यज्य क्षेत्राणि  गृहाणि  एकदुःखसुखा राममनुगच्छाम धार्मिकम्
Verse 18
समुद्धृतनिधानानि परिध्वस्ताजिराणि  उपात्त धनधान्यानि हृतसाराणि सर्वशः रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः मूषकैःपरिधावद्भिरुद्बिलैरावृतानि  अपेतोदकधूमानि हीनसम्मार्जनानि  प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि  दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति  अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्
Verse 19

Verse 20

Verse 21

Verse 22
वनं नगरमेवास्तु येन गच्छति राघवः अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्
Verse 23
बिलानि दंष्ट्रिण स्सर्वे सानूनि मृगपक्षिणः त्यजन्त्वस्मद्भयाद्भीता गजास्सिंहा वनानि  अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु 
Verse 24
तृणमांस फलादानां देशं व्यालमृगद्विजम् प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः राघवेण वने सर्वे वयं वत्स्याम निर्वृताः
Verse 25
तृणमांस फलादानां देशं व्यालमृगद्विजम् प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः राघवेण वने सर्वे वयं वत्स्याम निर्वृताः
Verse 26
इत्येवं विविधा वाचो नानाजनसमीरिताः शुश्राव रामः श्रुत्वा   विचक्रेऽस्य मानसम्
Verse 27
 तु वेश्म पितुर्दूरात्कैलासशिखरप्रभम् अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः
Verse 28
विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः
Verse 29
प्रतीक्षमाणोऽपि जनं तदार्त मनार्तरूपः प्रहसन्निवाथ जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः
Verse 30
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्
Verse 31
पितुर्निदेशेन तु धर्मवत्सलः वनप्रवेशे कृतबुद्धिनिश्चयः  राघवः प्रेक्ष्य सुमन्त्रमब्रवी न्निवेदयस्वागमनं नृपाय मे
0:000:00
Speed: