🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 32

Sarga 32

45 verses

Verse 1
ततश्शासन माज्ञाय भ्रातु श्शुभतरं प्रियम् गत्वा  प्रविवेशाशु सुयज्ञस्य निवेशनम्
Verse 2
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः
Verse 3
ततस्सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्
Verse 4
तमागतं वेदविदं प्राञ्जलिस्सीतया सह सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्
Verse 5
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् सुयज्ञं  तदोवाच रामस्सीता प्रचोदितः
Verse 6
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् सुयज्ञं  तदोवाच रामस्सीता प्रचोदितः
Verse 7
हारं  हेमसूत्रं  भार्यायै सौम्य हारय रशनां चाधुना सीता दातुमिच्छति ते सखे
Verse 8
अङ्गदानि विचित्राणि केयूराणि शुभानि  प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम्
Verse 9
पर्यङ्कमग्य्रास्तरणं नानारत्नविभूषितम् तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि
Verse 10
नाग श्शत्रुञ्जयो नाम मातुलोऽयं ददौ मम तं ते गजसहस्रेण ददामि द्विजसत्तम
Verse 11
इत्युक्तस्स हि रामेण सुयज्ञः प्रतिगृहृयतत् रामलक्ष्मणसीतानां प्रयुयोजाशिष श्शुभाः
Verse 12
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्
Verse 13
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ अर्चयाहूय सौमित्रे रत्नैस्सस्यमिवाम्बुभिः
Verse 14
तर्पयस्व महाबाहो गोसहस्रैश्च मानद सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः
Verse 15
कौसल्यां   आशीर्भिर्भक्तः पर्युपतिष्ठति आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् तस्य यानं  दासीश्च सौमित्रे सम्प्रदापय कौशेयानि  वस्त्राणि यावत्तुष्यति  द्विजः
Verse 16
कौसल्यां   आशीर्भिर्भक्तः पर्युपतिष्ठति आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् तस्य यानं  दासीश्च सौमित्रे सम्प्रदापय कौशेयानि  वस्त्राणि यावत्तुष्यति  द्विजः
Verse 17
सूतश्चित्ररथश्चार्य सचिवस्सुचिरोषितः तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा पशुकाभिश्च सर्वाभिर्गवां दशशतेन 
Verse 18
ये चेमे कठकालापा बहवो दण्डमाणवाः नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन अलसा स्वादुकामाश्च महतां चापि सम्मताः तेषामशीतियानानि रत्नपूर्णानि दापय शालिवाहसहस्रं  द्वे शते भद्रकां स्तथा व्यञ्जनार्थं  सौमित्रे गोसहस्रमुपाकुरु
Verse 19

Verse 20

Verse 21
मेखलीनां महासङ्घः कौसल्यां समुपस्थितः तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय
Verse 22
अम्बा यथा  सा नन्देत्कौसल्या मम दक्षिणाम् तथा द्विजातीस्ता न्सर्वान् लक्ष्मणार्चय सर्वशः
Verse 23
तत स्सपुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् यथोक्तं ब्राह्मणेन्द्राणांमददाद्धनदो यथा
Verse 24
अथाऽब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः सम्प्रदायबहुद्रव्यमेकैकस्योपजीवनम्
Verse 25
लक्ष्मणस्य  यद्वेश्म गृहं  यदिदं मम अशून्यं कार्यमेकैकं यावदागमनं मम
Verse 26
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् उवाचेदं धनाध्यक्षं धनमानीयतामिति
Verse 27
ततोऽस्य धनमाजह्रुस्सर्वमेवोपजीविनः  राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत
Verse 28
ततस्सपुरुषव्याघ्र स्तद्धनं सहलक्ष्मणः द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽह्यदापयत्
Verse 29
तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली
Verse 30
तं वृद्धं तरुणी भार्या बालानादाय दारकान् अब्रवीद्बाह्मणं वाक्यं दारिद्र्येणाभिपीडिता
Verse 31
अपास्य फालं कुद्दालं कुरुष्व वचनं मम रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि
Verse 32
 भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्  प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्
Verse 33
भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि आपञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत्
Verse 34
 राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति
Verse 35
 राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति
Verse 36
तमुवाच ततो राम: परिहास समन्वितम् गवां सहस्रमप्येकं  नु विश्राणितं मया परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि
Verse 37
 शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् आविद्ध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः
Verse 38
 तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ
Verse 39
तं परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् आनयामास ता गोपै स्त्रिजटायाश्रमं प्रति
Verse 40
उवाच  ततो रामस्तं गार्ग्यमभिसान्त्वयन् मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम
Verse 41
इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया इमं भवानर्थमभि प्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति
Verse 42
ब्रवीमि सत्येन नतेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात् भवत्सु सम्यक्प्रतिपादनेन  न्मयार्जितं प्रीतियशस्करं भवेत्
Verse 43
तत स्सभार्य स्त्रिजटो महामुनि र्गवामनीकं प्रतिगृह्य मोदितः यशोबलप्रीतिसुखोपबृंहणी स्तदाशिष: प्रत्यवदन्महात्मनः
Verse 44
 चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् नियोजयामास सुहृज्जनेऽचिरा द्यथार्हसम्मानवचः प्रचोदितः
Verse 45
द्विज स्सुहृद्भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत्  तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्मानन दान सम्भ्रमैः
0:000:00
Speed: