Book 2 • Chapter 31
Sarga 31
35 verses
Verse 1
एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः सीतामुवाचातियशां राघवं च महाव्रतम्
Verse 2
एवं शृत्वा तु संवादं लक्ष्मणः पूर्वमागतः बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः सीतामुवाचातियशां राघवं च महाव्रतम्
Verse 3
यदि गन्तुं कृताबुद्धिर्वनं मृगगजायुतम् अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः
Verse 4
मया समेतोऽरण्यानि बहूनि विचरिष्यसि पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः
Verse 5
न देवलोकाक्रमणं नामरत्वमहं वृणे ऐश्वर्यं वापि लोकानां कामये न त्वया विना
Verse 6
एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः रामेण बहुभिस्सान्त्वैर्निषिध्दः पुनरब्रवीत्
Verse 7
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् किमिदानीं पुनरिदं क्रियते मन्निवारणम्
Verse 8
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः एतदिच्छामि विज्ञातुं संशयो हि ममानघ
Verse 9
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्
Verse 10
स्निग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे
Verse 11
मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्
Verse 12
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव स कामपाशपर्यस्तो महातेजा महीपतिः
Verse 13
सा हि राज्यमिदं प्राप्य नृपस्याश्वपते स्सुता दुःखितानां सपत्नीनां न करिष्यति शोभनम्
Verse 14
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः
Verse 15
तामार्यां स्वयमेवेह राजानुग्रहणेन वा सौमित्रे भर कौशल्यामुक्तमर्थमिमं चर
Verse 16
एवं मम च ते भक्तिर्भविष्यति सुदर्शिता धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान्
Verse 17
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम्
Verse 18
एवमुक्तस्तु रामेण लक्ष्मण श्श्लक्ष्णया गिरा प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्
Verse 19
तवैव तेजसा वीर भरतः पूजयिष्यति कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः
Verse 20
कौशल्या बिभृयादार्या सहस्रमपि मद्विधान् यस्यास्सहस्रं ग्रामाणां सम्प्राप्त मुपजीवनम्
Verse 21
तदात्मभरणे चैव मम मातुस्तथैव च पर्याप्ता मद्विधानां च भरणाय यशस्विनी
Verse 22
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते
Verse 23
धनुरादाय सशरं खनित्रपिटकाधरः अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन्
Verse 24
आहरिष्यामि ते नित्यं मूलानि च फलानि च वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्
Verse 25
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते अहं सर्वं करिष्यामि जाग्रत स्स्वपतश्च ते
Verse 26
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्
Verse 27
ये च राज्ञो ददौ दिव्ये महात्मा वरुण स्स्वयम् जनकस्य महायज्ञे धनुषी रौद्रदर्शने अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण
Verse 28

Verse 29

Verse 30
स सुहृज्जनमामन्त्र्यवनवासाय निश्चितः इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्
Verse 31
तद्धिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् रामाय दर्शयामास सौमित्रिस्सर्वमायुधम्
Verse 32
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् काले त्वमागत सौम्य काङ्क्षिते मम लक्ष्मण
Verse 33
अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप
Verse 34
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम्
Verse 35
वशिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् अभिप्रयास्यामि वनं समस्ता नभ्यर्च्य शिष्टानपरान् द्विजातीन्
0:000:00
Speed: