Book 2 • Chapter 30
Sarga 30
46 verses
Verse 1
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा वनवासनिमित्ताय भर्तारमिदमब्रवीत्
Verse 2
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्
Verse 3
किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्
Verse 4
अनृतं बत लोकोऽयमज्ञानाद्यदि वक्ष्यति तेजो नास्ति परं रामे तपतीव दिवाकरे
Verse 5
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम्
Verse 6
द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्
Verse 7
न त्वहं मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ त्वया राघव गच्छेयं यथाऽन्या कुलपांसिनी
Verse 8
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् शैलूष इव मां राम परेभ्यो दातुमिच्छसि
Verse 9
यस्य पथ्यं च रामाऽत्थ यस्य चार्थेऽवरुध्यसे त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ
Verse 10
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात्सह मे त्वया
Verse 11
न च मे भविता तत्र कश्चित्पथि परिश्रमः पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव
Verse 12
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः तूलाजिनसमस्पर्शा मार्गे मम सह त्वया
Verse 13
महावातसमुद्धूतं यन्मामपकरिष्यति रजो रमण तन्मन्ये परार्थ्यमिव चन्दनम्
Verse 14
शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः
Verse 15
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्
Verse 16
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च
Verse 17
न च तत्र ततः किञ्चिद्द्रष्टुमर्हसि विप्रियम् मत्कृते न च ते शोको न भविष्यामि दुर्भरा
Verse 18
य स्त्वया सह स स्वर्गो निरयो यस्त्वया विना इति जानन्परां प्रीतिं गच्छ राम मया सह
Verse 19
अथ मामेवमव्यग्रां वनं नैव नयिष्यति विषमद्यैव पास्यामि मा विशं द्विषतां गमम्
Verse 20
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् उज्झितायास्त्वया नाथ तदैव मरणं वरम्
Verse 21
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता
Verse 22
इति सा शोकसन्तप्ता विलप्य करुणं बहु चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्
Verse 23
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः
Verse 24
तस्या स्फटिकसङ्काशं वारि सन्तापसम्भवम् नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्
Verse 25
तच्चैवामलचन्द्राभं मुखमायतलोचनम् पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्
Verse 26
तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् उवाच वचनं रामः परिविश्वासयंस्तदा
Verse 27
न देवि तव दुःखेन स्वर्गमप्यभिरोचये न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः
Verse 28
तव सर्वमभिप्रायमविज्ञाय शुभानने वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे
Verse 29
यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि न विहातुं मया शक्या कीर्तिरात्मवता यथा
Verse 30
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला
Verse 31
न खल्वहं न गच्छेयं वनं जनकनन्दिनि वचनं तन्नयति मां पितु स्सत्योपबृंहितम्
Verse 32
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे
Verse 33
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्
Verse 34
यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते
Verse 35
न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः तथा बलकरा स्सीते यथा सेवा पितुर्हिता
Verse 36
स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम्
Verse 37
देवगन्धर्वगोलोकान्ब्रह्मलोकां स्तथाऽपरान् प्राप्नुवन्ति महात्मानो मातापितृपरायणाः
Verse 38
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः
Verse 39
मम सन्ना मतिस्सीते त्वां नेतुं दण्डकावनम् वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता
Verse 40
सा हि सृष्टाऽनवद्याङ्गि वनाय मदिरेक्षणे अनुगच्छस्व मां भीरु सहधर्मचरी भव
Verse 41
सर्वथा सदृशं सीते मम स्वस्य कुलस्य च व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्
Verse 42
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते
Verse 43
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् देहि चाशंसमानेभ्य स्सन्त्वरस्व च मा चिरम्
Verse 44
भूषणानि महार्हाणि वरवस्त्राणि यानि च रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः शयनीयानि यानानि मम चान्यानि यानि च देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्
Verse 45
भूषणानि महार्हाणि वरवस्त्राणि यानि च रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः शयनीयानि यानानि मम चान्यानि यानि च देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्
Verse 46
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे
0:000:00
Speed: