Book 2 • Chapter 29
Sarga 29
24 verses
Verse 1
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्
Verse 2
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान्
Verse 3
मृगा स्सिंहा गजाश्चैव शार्दूला श्शरभास्तथा पक्षिण स्सृमराश्चैव ये चान्ये वनचारिणः अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति
Verse 4
मृगा स्सिंहा गजाश्चैव शार्दूला श्शरभास्तथा पक्षिण स्सृमराश्चैव ये चान्ये वनचारिणः अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति
Verse 5
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्
Verse 6
न हि मां त्वत्समीपस्थामपि शक्नोतिराघव सुराणामीश्वर श्शक्रः प्रधर्षयितुमोजसा
Verse 7
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् काममेवं विधं राम त्वया मम निदर्शितम्
Verse 8
अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
Verse 9
लक्षणिभ्यो द्विजातिभ्य श्शृत्वाऽहं वचनं पुरा वनवासकृतोत्साहा नित्यमेव महाबल
Verse 10
आदेशो वनवासस्य प्राप्तव्य स्स मया किल सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा
Verse 11
कृतादेशा भविष्यामि गमिष्यामि सह त्वया कालश्चायं समुत्पन्न स्सत्यवाग्भवतु द्विजः
Verse 12
वनवासेऽभिजानामि दुःखानि बहुथा किल प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः
Verse 13
कन्यया च पितुर्गेहे वनवास श्शृतो मया भिक्षिण्या स्साधुवृत्ताया मम मातुरिहाग्रतः
Verse 14
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो गमनं वनवासस्य काङ्क्षितं हि सह त्वया
Verse 15
कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव वनवासस्य शूरस्य चर्या हि मम रोचते
Verse 16
शुद्धात्मन्प्रेमभावाध्दि भविष्यामि विकल्मषा भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्
Verse 17
प्रेत्यभावे हि कल्याण स्सङ्गमो मे सह त्वया श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् इहलोके च पितृभिर्या स्त्री यस्य महामते अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा
Verse 18
प्रेत्यभावे हि कल्याण स्सङ्गमो मे सह त्वया श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् इहलोके च पितृभिर्या स्त्री यस्य महामते अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा
Verse 19
एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना
Verse 20
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः नेतुमर्हसि काकुत्स्थ समान सुखदुःखिनीम्
Verse 21
ययदि मां दुःखितामेवं वनं नेतुं न चेच्छसि विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात्
Verse 22
एवं बहुविधं तं सा याचते गमनं प्रति नानुमेने महाबाहुस्तां नेतुं विजनं वनम्
Verse 23
एवमुक्ता तु सा चिन्तां मैथिली समुपागता स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः
Verse 24
चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत्
0:000:00
Speed: