🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 116

Sarga 116

26 verses

Verse 1
प्रतिप्रयाते भरते वसन्रामस्तपोवने लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्
Verse 2
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्
Verse 3
नयनैर्ब्रुकुटीभिश्च रामं निर्दिश्य शङ्किताः अन्योन्यमुपजल्पन्त श्शनैश्चक्रुर्मिथः कथाः
Verse 4
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः
Verse 5
 कच्चिद्भगवन्किञ्चित्पूर्ववृत्तमिदं मयि दृश्यते विकृतं येन विक्रियन्ते तपस्विनः
Verse 6
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवात्मनः
Verse 7
कच्चिच्छुश्रूषमाणा  श्शुश्रूषणपरा मयि प्रमदाऽभ्युचितां वृत्तिं सीता युक्तं  वर्तते
Verse 8
अथर्षिर्जरया वृद्धस्तपसा  जरां गतः वेपमान इवोवाच रामं भूतदयापरम्
Verse 9
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा चलनं तात वैदेह्यास्तपस्विषु विशेषतः
Verse 10
त्वन्निमित्तमिदं तावत्तापसान्प्रतिवर्तते रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः
Verse 11
रावणावरजः कश्चित् खरो नामेह राक्षसः उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान् धृष्टश्च जितकाशी  नृशंसः पुरुषादकः अवलिप्तश्च पापश्च त्वां  तात  मृष्यते
Verse 12
रावणावरजः कश्चित् खरो नामेह राक्षसः उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान् धृष्टश्च जितकाशी  नृशंसः पुरुषादकः अवलिप्तश्च पापश्च त्वां  तात  मृष्यते
Verse 13
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्
Verse 14
दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः
Verse 15
अप्रशस्तैशुचिभिस्सम्प्रयोज्य  तापसान् प्रतिध्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थिताः
Verse 16
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय  रमन्ते तापसां स्तत्र नाशयन्तोऽल्पचेतसः
Verse 17
अपक्षिपन्ति स्रुग्भाण्डानग्नीस्निञ्चन्ति वारिणा कलशांश्च प्रमध्नन्ति हवने समुपस्थिते
Verse 18
तैर्दुरात्मभिरामृष्टानाश्रमान्प्रजिहासवः गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम्
Verse 19
तत्पुरा राम शारीरामुपहिंसां तपस्विषु दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्
Verse 20
बहुमूलफलं चित्रमविदूरादितो वनम् पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः
Verse 21
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते
Verse 22
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव समर्थस्यापि हि सतो वासो दुःखमिहाद्य ते
Verse 23
इत्युक्तवन्तं स्तंराम राजपुत्रस्तपस्विनम्  शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम्
Verse 24
अभिनन्द्य समापृच्छ्य समाधाय  राघवम्  जगामाश्रमं त्यक्त्वा कुलैः कुलपतिस्सह
Verse 25
रामः संसाद्य ऋषिगणमनुगमनाद्देशात्तस्मात्कुलपतिमभिवाद्य ऋषिम् सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे
Verse 26
आश्रममृषिविरहितं प्रभुः क्षणमपिन जहौ  राघवः राघवं हि सततमनुगता स्तापसाश्चार्षचरित धृतगुणाः
0:000:00
Speed: