🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 117

Sarga 117

27 verses

Verse 1
राघव स्त्वथ यातेषु तपस्विषु विचिन्तयन्  तत्रारोचयद्वासं कारणैर्बहुभिस्तदा
Verse 2
इह मे भरतो दृष्टो मातरश्च सनागराः सा  मे स्मृतिरन्वेति तान्नित्यमनुशोचतः
Verse 3
स्कन्धावारनिवेशेन तेन तस्य महात्मनः हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्
Verse 4
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः प्रातिष्ठत  वैदेह्या लक्ष्मणेन  सङ्गतः
Verse 5
सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत
Verse 6
स्वयमातिथ्यमादिश्य सर्वमन्यत्सुसत्कृतम् सौमित्रिं  महाभागां सीतां  समसान्त्वयत्
Verse 7
पत्नीं  समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः
Verse 8
आनसूयां महाभागां तापसीं धर्मचारिणीम् प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः रामाय चाऽचचक्षे तां तापसीं धर्मचारिणीम्
Verse 9
दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् यया मूलफले सृष्टे जाह्नवी  प्रवर्तिता उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता दश वर्ष सहास्राणि तया तप्तं महत्तपः अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः देवकार्यनिमित्तं  यया सन्त्वरमाणया दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ
Verse 10

Verse 11
दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् यया मूलफले सृष्टे जाह्नवी  प्रवर्तिता उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता दश वर्षसहास्राणि यया तप्तं महत् तपः अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः देवकार्यनिमित्तं  यया सन्त्वरमाणया दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ
Verse 12
दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् यया मूलफले सृष्टे जाह्नवी  प्रवर्तिता उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता दश वर्ष सहास्राणि तया तप्तं महत्तपः अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः देवकार्यनिमित्तं  यया सन्त्वरमाणया दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ
Verse 13
तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा अनसूयेति या लोके कर्मभिः ख्यातिमागता
Verse 14
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा  राघवः सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्
Verse 15
राजपुत्रि श्रुतमिदं मुनेरस्य समीरितम् श्रेयोऽर्थमात्मनश्शीघ्रमभिगच्छ तपस्विनीम्
Verse 16
सीता त्वेतद वचः श्रुत्वा राघवस्य हितैषिणः तामत्रिपन्तीं धर्मज्ञामभिचक्राम मैथिली
Verse 17
शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् सततं वेपमानाङ्गीं प्रवाते कदलीं यथा तां तु सीता महाभागामनसूयां पतिव्रताम् अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्
Verse 18
शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् सततं वेपमानाङ्गीं प्रवाते कदलीं यथा तां तु सीता महाभागामनसूयां पतिव्रताम् अभ्यवादयदव्यग्रा स्वंनाम समुदाहरत्
Verse 19
अभिवाद्य  वैदेही तापसीं तामनिन्दिताम् बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्
Verse 20
ततस्सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे
Verse 21
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धं  भामिनि अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि
Verse 22
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः
Verse 23
दुश्शीलः कामवृत्तो वा धनैर्वा परिवर्जितः स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः
Verse 24
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम्
Verse 25
 त्वेवमवगच्छन्ति गुणदोषमसत्त्स्रियः कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः
Verse 26
प्राप्नुवन्त्य यशश्चैव धर्मभ्रंशं  मैथिलि अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः
Verse 27
त्वद्विधास्तु गुणैर्युक्ता दृष्ट लोक परावराः स्त्रिय स्स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा
0:000:00
Speed: