🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 118

Sarga 118

54 verses

Verse 1
सात्वेवमुक्ता वैदेही अनसूयाऽनसूयया प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे
Verse 2
नैतदाश्चर्यमार्याया यन्मां त्वमभिभाषसे विदितन्तु ममाप्येतद्यथा नार्याः पतिर्गुरुः
Verse 3
यद्यप्येष भवेद्भर्ता ममाऽर्ये वृत्तवर्जितः अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत्
Verse 4
किं पुनर्यो गुणश्लाघ्य स्सानुक्रोशो जितेन्द्रियः स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः
Verse 5
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः तामेव नृपनारीणामन्यासामपि वर्तते
Verse 6
सकृद्दृष्टास्वपि स्त्रिषु नृपेण नृपवत्सलः मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्
Verse 7
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् समाहितं मे श्वश्र्वा  हृदये तद्धृतं महत्
Verse 8
पाणिप्रदानकाले  यत्पुरात्वग्नि सन्निधौ अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम्
Verse 9
नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते
Verse 10
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्
Verse 11
वरिष्ठा सर्वनारीणामेषा  दिवि देवता रोहिणी  विनाचन्द्रं मुहूर्तमपि दृश्यते
Verse 12
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः देवलोके महीयन्ते पुण्येन स्वेन कर्मणा
Verse 13
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत
Verse 14
नियमैर्विविधैराप्तं तपो हि महदस्ति मे तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते
Verse 15
उपपन्नं मनोज्ञं  वचनं तव मैथिलि प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे
Verse 16
तस्यास्तद् वचनं श्रूत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत् सीता तपोबलसमन्विताम्
Verse 17
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् सफलं  प्रहर्षं ते हन्त सीते करोम्यहम्
Verse 18
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि  अङ्गरागं  वैदेहि महार्हं चानुलेपनम् मया दत्तमिदं सीते तव गात्राणि शोभयेत् अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति
Verse 19
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि  अङ्गरागं  वैदेहि महार्हं चानुलेपनम् मया दत्तमिदं सीते तव गात्राणि शोभयेत् अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति
Verse 20
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम्
Verse 21
सा वस्त्रमङ्गरागं  भूषणानि स्रजस्तथा मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्
Verse 22
प्रतिगृह्य  तत्सीता प्रीतिदानं यशस्विनी श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम्
Verse 23
तथा सीतामुपासीनामनसूया दृढव्रता वचनं प्रष्टुमारेभे काञ्चित्प्रियकथामनु
Verse 24
स्वयं वरे किल प्राप्ता त्वमनेन यशस्विना राघवेणेति मे सिते कथा श्रुतिमुपागता
Verse 25
तां कथां श्रोतुमिच्छामि विस्तरेण  मैथिलि यथाऽनुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि
Verse 26
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्
Verse 27
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् क्षत्रधर्मे ह्यभिरतो न्यायतश्शास्ति मेदिनीम्
Verse 28
तस्य लाङ्गलहस्तन्य कर्षतः क्षेत्रमण्डलम् अहं किलोत्थिता भित्वा जगतीं नृपतेस्सुता
Verse 29
 मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत्
Verse 30
अनपत्येन  स्नेहादङ्कमारोप्य  स्वयम् ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः
Verse 31
अन्तरिक्षे  वागुक्ताऽप्रतिमाऽमानुषी किल एवमेतन्नरपते धर्मेण तनया तव
Verse 32
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः अवाप्तो विपुलां बुद्धिं मामवाप्य नराधिपः
Verse 33
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्
Verse 34
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता चिन्तामभ्यगमद्धीनो वित्तनाशादिवाधनः
Verse 35
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि
Verse 36
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः चिन्तार्णवगतः पारं नाससादाप्लवो यथा
Verse 37
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् सदृशं चानुरूपं  महीपालः पतिं मम
Verse 38
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् स्वयंवरं तनूजायाः करिष्यामीति धीमतः
Verse 39
महायज्ञे तदा तस्य वरुणेन महात्मना दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ
Verse 40
असञ्चाल्यं मनुष्यैश्च यत्नेनापि  गौरवात् तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः
Verse 41
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्
Verse 42
इदं  धनुरुद्यम्य सज्यं यः कुरुते नरः तस्य मे दुहिता भार्या भविष्यति  संशयः
Verse 43
तच्च दृष्ट्वा धनुश्श्रेष्ठं गौरवाद्गिरिसन्निभम् अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने
Verse 44
सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः लक्ष्मणेन सह भ्रात्रा राम स्सत्यपराक्रमः
Verse 45
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ
Verse 46
सुतौ दशरथस्येमौ धनुर्दर्शकाङ्क्षिणौ धनुर्दर्शय रामाय राजपुत्राय दैविकम्
Verse 47
इत्युक्तस्तेन विप्रेण तद्धनुस्समुपानयत् निमेषान्तरमात्रेण तदाऽनम्य महाबलः ज्यां समारोप्य झडिति पूरयामास वीर्यवान्
Verse 48
इत्युक्तस्तेन विप्रेण तद्धनुस्समुपानयत् निमेषान्तरमात्रेण तदाऽनम्य महाबलः ज्यां समारोप्य झडिति पूरयामास वीर्यवान्
Verse 49
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः तस्य शब्दो भवद्भीमः पतितस्याशनेरिव
Verse 50
ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम्
Verse 51
दीयमानां  तु तदा प्रतिजग्राह राघवः अविज्ञाय पितुश्छन्दमयोध्याऽधिपतेः प्रभोः
Verse 52
तत श्श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् मम पित्रा त्वहं दत्ता रामाय विदितात्मने
Verse 53
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्
Verse 54
एवं दत्ताऽस्मि रामाय तदा तस्मिन्स्वयंवरे अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम्
0:000:00
Speed: