Book 2 • Chapter 119
Sarga 119
22 verses
Verse 1
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम्
Verse 2
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया रमेऽहं कथया ते तु दृढं मधुरभाषिणि
Verse 3
रविरस्तङ्गतश्श्रीमानुपोह्य रजनीं शिवाम् दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः
Verse 4
रविरस्तङ्गतश्श्रीमानुपोह्य रजनीं शिवाम् दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः
Verse 5
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः
Verse 6
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः
Verse 7
अल्पपर्णा हि तरवो घनीभूतास्समन्ततः विप्रकृष्टेन्द्रिये देशेऽस्मिन्न प्रकाशन्ति वै दिशः
Verse 8
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः तपोवनमृगा ह्येते वेदितीर्थेषु शेरते
Verse 9
सम्प्रवृत्तानिशा सीते नक्षत्रसमलङ्कृता ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे
Verse 10
गम्यतामनुजानामि रामस्यानुचरी भव कथायन्त्या हि मधुरं त्वयाऽहं परितोषिता
Verse 11
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता
Verse 12
सा तथा समलङ्कृत्य सीता सुरसुतोपमा प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ
Verse 13
तथा तु भूषितां सीतां ददर्श वदतां वरः राघवः प्रीतिदानेन तपस्विन्या जहर्ष च
Verse 14
न्यवेदयत्ततस्सर्वं सीता रामाय मैथिली प्रीतिदानं तपस्विन्या वसनाभरणस्रजम्
Verse 15
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः मैथिल्यास्सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्
Verse 16
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः अर्चितस्तापसै स्सिद्धैरुवास रघुनन्दनः
Verse 17
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान्
Verse 18
तावूचुस्ते वनचरास्तापसा धर्मचारिणः वनस्य तस्य सञ्चारं राक्षसैस्समभिप्लुतम्
Verse 19
रक्षांसि पुरुषादानि नानारूपाणि राघव वसन्त्यस्मिन्महारण्ये व्यालाश्च रुधिराशनाः
Verse 20
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् अदन्त्यस्मिन्महारण्ये तान्निवारय राघव
Verse 21
एष पन्था महर्षीणां फलान्याहरतां वने अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्
Verse 22
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परन्तपः वनं सभार्यः प्रविवेश राघवस्सलक्ष्मणस्सूर्य इवाभ्रमण्डलम्
0:000:00
Speed: