🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 16

Sarga 16

47 verses

Verse 1
तदन्तःपुरद्वारं समतीत्य जनाकुलम् प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम्
Verse 2
तदन्तःपुरद्वारं समतीत्य जनाकुलम् प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम्
Verse 3
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान् ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान्
Verse 4
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससम्भ्रमाः
Verse 5
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः क्षिप्रमाख्यात रामाय सुमंन्त्रो द्वारि तिष्ठति
Verse 6
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः सहभार्याय रामाय क्षिप्रमेवाभिचक्षिरे
Verse 7
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः तत्रैवानाययामास राघवप्रियकाम्यया
Verse 8
तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे वराहरुधिराभेण शुचिना  सुगन्धिना अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् स्थितया पार्श्वतश्चापि वालव्यजनहस्तया उपेतं सीतयाभूयश्चित्रया शशिनं यथा
Verse 9

Verse 10

Verse 11
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्
Verse 12
प्राञ्जलिस्सुमुखं दृष्ट्वा विहारशयनासने राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः
Verse 13
कौशल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम्
Verse 14
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ततस्सम्मानयामास सीतामिदमुवाच 
Verse 15
देवि देवश्च देवी  समागम्य मदन्तरे मन्त्रयेते धृवं किञ्चिदभिषेचनसंहितम्
Verse 16
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा सञ्चोदयति राजानं मदर्थमसितेक्षणा
Verse 17
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी जननी चार्थकामा मे केकयाधिपतेस्सुता
Verse 18
दिष्ट्या खलु महाराजो महिष्या प्रियया सह सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम
Verse 19
यादृशी परिषत्तत्र तादृशो दूत आगतः ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति
Verse 20
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि  महीपतिम् सह त्वं परिवारेण सुखमास्व रमस्व 
Verse 21
पतिसम्मानिता सीता भर्तारमसितेक्षणा आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी
Verse 22
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् कर्तुमर्हति ते राजा वासवस्येव लोककृत्
Verse 23
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् कुरङ्गशृङ्गपाणिं  पश्यन्ती त्वां भजाम्यहम्
Verse 24
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्
Verse 25
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्
Verse 26
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः लक्ष्मणं द्वारिसोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम्
Verse 27
अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः  सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य  ततः पावकसङ्काशमारुरोह रथोत्तमम् वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः
Verse 28
अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः  सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य  ततः पावकसङ्काशमारुरोह रथोत्तमम् वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः
Verse 29
मेघनादमसम्बाधं मणिहेमविभूषितम् मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् प्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया
Verse 30
मेघनादमसम्बाधं मणिहेमविभूषितम् मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् प्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया
Verse 31
 पर्जन्य इवाकाशे स्वनवानभिनादयन् निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः
Verse 32
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः
Verse 33
ततो हलहलाशब्दस्तुमुलस्समजायत तस्य निष्क्रममाणस्य जनौघस्य समन्ततः
Verse 34
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः
Verse 35
अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः खड्गचापधराश्शूरा जग्मुराशंसवो जनाः
Verse 36
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि
Verse 37
हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः कीर्यमाण स्सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः
Verse 38
रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः वचोभिरग्य्रैर्हर्म्यस्था क्षितिस्थाश्च ववन्दिरे
Verse 39
नूनं नन्दति ते माता कौशल्यामातृनन्दन पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम्
Verse 40
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनी वराम् अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्
Verse 41
तया सुचरितं देव्या पुरा नूनं महत्तपः रोहिणीव शशाङ्केन रामसंयोगमाप या
Verse 42
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः आत्मसंपूजनै शृण्वन् ययौ रामौ महापथम्
Verse 43
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः आत्मसंपूजनै शृण्वन् ययौ रामौ महापथम्
Verse 44
 राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य
Verse 45
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् एते वयं सर्व समृद्धकामा येषामयं नो भविता प्रशास्ता
Verse 46
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय  ह्यप्रियं किञ्चन जातु कश्चि त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन्
Verse 47
 घोषवद्भिश्च मतङ्गाजैर्ययैः पुरस्सरै स्स्वस्तिकसूतमागधैः महीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ
0:000:00
Speed: