🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 17

Sarga 17

22 verses

Verse 1
 रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः पताकाध्वजसम्पन्नं महार्हागरुधूपितम् अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्
Verse 2
 गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् राजमार्गं ययौ रामो मध्येनागरुधूपितम्
Verse 3
चन्दनानां  मुख्यानामगरूणां  सञ्चयैः उत्तमानां  गन्धानां क्षौमकोशाम्बरस्य  अविद्धाभिश्च मुक्ताभिरुत्तमैस्स्फाटिकैरपि शोभमानमसंबाधैस्तं राजपथमुत्तमम् संवृतं विविधैःपुष्पैर्भक्ष्यैरुच्चावचैरपि
Verse 4
चन्दनानां  मुख्यानामगरूणां  सञ्चयैः उत्तमानां  गन्धानां क्षौमकोशाम्बरस्य  अविद्धाभिश्च मुक्ताभिरुत्तमैस्स्फाटिकैरपि शोभमानमसंबाधैस्तं राजपथमुत्तमम् संवृतं विविधैःपुष्पैर्भक्ष्यैरुच्चावचैरपि
Verse 5
चन्दनानां  मुख्यानामगरूणां  सञ्चयैः उत्तमानां  गन्धानां क्षौमकोशाम्बरस्य  अविद्धाभिश्च मुक्ताभिरुत्तमैस्स्फाटिकैरपि शोभमानमसंबाधैस्तं राजपथमुत्तमम् संवृतं विविधैःपुष्पैर्भक्ष्यैरुच्चावचैरपि
Verse 6
ददर्श तं राजपथं दिवि देवपथं यथा दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः नानामाल्योपगंधैश्च सदाऽभ्यर्चितचत्वरम्
Verse 7
अशीर्वादान्बहून् शृण्वन्सुहृद्भिस्समुदीरितान् यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ
Verse 8
पितामहैराचरितं तथैव प्रपितामहैः अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय
Verse 9
यथास्म पोषिताः पित्रा यथा सर्वैः पितामहैः ततस्सुखतरं रामे वत्स्यामस्सति राजनि
Verse 10
अलमद्य हि भुक्तेन परमार्थैरलं  नः यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
Verse 11
अतो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति यथाऽभिषेको रामस्य राज्येनामिततेजसः
Verse 12
एताश्चान्याश्च सुहृदामुदासीनः कथाश्शुभाः आत्मसम्पूजनीश्शृण्वन्ययौ रामो महापथम्
Verse 13
 हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् नर श्शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे
Verse 14
यश्च रामं  पश्येत्तु यं  रामो  पश्यति निन्दित स्सर्वल्लोकेषु स्वात्माऽप्येनं विगर्हते
Verse 15
सर्वेषु हि  धर्मात्मा वर्णानां कुरुते दयाम् चतुर्णां हि वयः स्थानां तेन ते तमनुव्रताः
Verse 16
चतुष्पथान्देवपथांश्चैत्यान्यायतनानि  प्रदक्षिणं परिहरन् जगाम नृपते स्सुतः
Verse 17
 राजकुलमासाद्य मेघसङ्घोपमै श्शुभैः प्रासादशृङ्गैर्विविधैःकैलास शिखरोपमैः आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्
Verse 18

Verse 19

Verse 20
 कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः
Verse 21
 सर्वा स्समतिक्रम्य कक्ष्या दशरथात्मजः सन्निवर्त्य जनं सर्वं शुद्धान्तः पुरमभ्यगात्
Verse 22
तस्मिन् प्रविष्टे पितुरन्तिकं तदा जन स्स सर्वो मुदितो नृपात्मजे प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसस्सरित्पतिः
0:000:00
Speed: