🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 18

Sarga 18

41 verses

Verse 1
 ददर्शासने रामो निषण्णं पितरं शुभे कैकेयीसहितं दीनं मुखेन परिशुष्यता
Verse 2
 पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ततो ववन्दे चरणौ कैकेय्या स्सुसमाहितः
Verse 3
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्
Verse 4
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्
Verse 5
इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् निश्श्वसन्तं महाराजं व्यथिताकुलचेतसम् ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा
Verse 6
इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् निश्श्वसन्तं महाराजं व्यथिताकुलचेतसम् ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा
Verse 7
अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् बभूव संरब्धतर स्समुद्र इव पर्वणि
Verse 8
चिन्तयामास  तदा रामः पितृहिते रतः किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति
Verse 9
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते
Verse 10
 दीन इव शोकार्तो विषण्णवदनद्युतिः कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्
Verse 11
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय
Verse 12
अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः विवर्णवदनो दीनो  हि मामभिभाषते
Verse 13
शरीरो मानसो वापि कच्चिदेनं  बाधते सन्तापोवाऽभितापो वा दुर्लभं हि सदा सुखम्
Verse 14
कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने शत्रुघ्ने वा महासत्त्वे मात्रूणां वा ममाशुभम्
Verse 15
अतोषयन्महाराजमकुर्वन्वा पितुर्वचः मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे
Verse 16
यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः कथं तस्मिन्नवर्तेत प्रत्यक्षे सति दैवते
Verse 17
कच्चित्ते परुषं किञ्चिदभिमानात्पतिता मम उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः
Verse 18
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः किं निमित्तमपूर्वोयं विकारो मनुजाधिपे
Verse 19
एवमुक्ता तु कैकेयी राघवेण महात्मना उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः
Verse 20
 राजा कुपितो राम व्यसनं नास्य किञ्चन किञ्चिन्मनोगतंत्वस्य त्वद्भयान्नाभिभाषते
Verse 21
प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम
Verse 22
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य   पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा
Verse 23
अतिसृज्य ददानीति वरं मम विशांपतिः  निरर्थं गतजले सेतुं बन्धितुमिच्छति
Verse 24
धर्ममूलमिदं राम विदितं  सतामपि तत्सत्यं  त्यजेद्राजा कुपितस्त्वत्कृते यथा
Verse 25
यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् करिष्यसि ततस्सर्वमाख्यास्यामि पुनस्त्वहम्
Verse 26
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ततोऽहमभिधास्यामि  ह्येष त्वयि वक्ष्यति
Verse 27
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ
Verse 28
अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः अहं हि वचनाद्राज्ञः पतेयमपि पावके भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे नियुक्तो गुरुणा पित्रा नृपेण  हितेन 
Verse 29
अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः अहं हि वचनाद्राज्ञः पतेयमपि पावके भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे नियुक्तो गुरुणा पित्रा नृपेण  हितेन 
Verse 30
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् करिष्ये प्रतिजाने  रामो द्विर्नाभिभाषते
Verse 31
तमार्जवसमायुक्तमनार्या सत्यवादिनम् उवाच रामं कैकेयी वचनं भृशदारुणम्
Verse 32
पुरा दैवासुरे युद्धे पित्रा ते मम राघव रक्षितेन वरौ दत्तौ सशल्येन महारणे
Verse 33
तत्र मे याचितो राजा भरतस्याभिषेचनम् गमनं दण्डकारण्ये तव चाद्यैव राघव
Verse 34
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि आत्मानं  नरश्रेष्ठ मम वाक्यमिदं शृणु
Verse 35
सन्निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् त्वयाऽरण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च 
Verse 36
भरतस्त्वभिषिच्येत यदेतदभिषेचनम् त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव
Verse 37
सप्त सप्त  वर्षाणि दण्डकारण्यमाश्रितः अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस
Verse 38
भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् नानारत्न समाकीर्णां सवाजिरथकुञ्जराम्
Verse 39
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः शोकसंक्लिष्ट वदनो  शक्नोति निरीक्षितुम्
Verse 40
एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन सत्येन महता राम तारयस्व नरेश्वरम्
Verse 41
इतीव तस्यां परुषं वदन्त्यां  चैव रामः प्रविवेश शोकम् प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः
0:000:00
Speed: