Book 2 • Chapter 19
Sarga 19
40 verses
Verse 1
तदप्रियममित्रघ्नो वचनं मरणोपमम् श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्
Verse 2
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन्
Verse 3
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः
Verse 4
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः यास्यामि भव सुप्रीता वनं चीरजटाधरः
Verse 5
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्
Verse 6
अलीकं मानसं त्वेकं हृदयं दहतीव मे स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्
Verse 7
अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
Verse 8
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्
Verse 9
तदाश्वासय हीमं त्वं किन्विदं यन्महीपतिः वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति
Verse 10
गच्छन्तु चैवानयितुं दूताश्श्रीघ्रजवैर्हयैः भरतं मातुलकुलादद्यैव नृपशासनात्
Verse 11
दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश
Verse 12
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी प्रस्थानं श्रद्धधाना हि त्वरयामास राघवम्
Verse 13
एवं भवतु यास्यन्ति दूता श्शीघ्रजवैर्हयैः भरतं मातुलकुलादुपावर्तयितुं नराः
Verse 14
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् राम तस्मादित श्शीघ्रं वनं त्वं गन्तुमर्हसि
Verse 15
व्रीडान्वित स्स्वयं यच्च नृपस्त्वां नाभिभाषते नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्
Verse 16
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा
Verse 17
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते
Verse 18
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः
Verse 19
तदप्रियमनार्याया वचनं दारुणोदयम् श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्
Verse 20
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे विद्धिमामृषिभिस्तुल्यं केवलं धर्ममास्थितम्
Verse 21
यदत्र भवतः किञ्चिच्छक्यं कर्तुं प्रियं मया प्राणानपि परित्यज्य सर्वथा कृतमेव तत्
Verse 22
न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् यथा पितरिशुश्रूषा तस्य वा वचनक्रिया
Verse 23
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् वने वत्स्यामि विजने वर्षाणीह चतुर्दश
Verse 24
न नूनं मयि कैकयि किञ्चिदाशंससे गुणम् यद्राजानमवोचस्त्वं ममेश्वरतरा सती
Verse 25
यावन्मातरमाप्नच्छे सीतां चानुनयाम्यहम् ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम्
Verse 26
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा तथा भवत्या कर्तव्यं स हि धर्म स्सनातनः
Verse 27
स रामस्य वचश्श्रृत्वा भृशं दुःखहतः पिता शोकादशक्नुवन्वकतुं प्ररुरोद महास्वनम्
Verse 28
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा कैकेय्याश्चाप्यनार्यायाः निष्पपात महाद्युतिः
Verse 29
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम्
Verse 30
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह लक्ष्मणः परमक्कृध्दः स्सुमित्रानन्दवर्धनः
Verse 31
अभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्
Verse 32
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा
Verse 33
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
Verse 34
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् 2.19.35
Verse 35
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् 2.19.35
Verse 36
सर्वोह्यभिजनश्श्रीमान् श्रीमतस्सत्यवादिनः नालक्षयत रामस्य किञ्चिदाकारमानने
Verse 37
उचितं च महाबाहुर्नजहौहर्षमात्मनः शारद स्समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्
Verse 38
वाचा मधुरया रामस्सर्वं सम्मानयञ्जनम् मातुस्समीपं धीरात्मा प्रविवेश महायशाः
Verse 39
तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः सौमित्रिरनुवव्राज धारयन्दुःखमात्मजम्
Verse 40
प्रविश्य वेश्मातिभृशं मुदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम् न चैव रामोऽत्रजगामविक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया
0:000:00
Speed: