Book 2 • Chapter 20
Sarga 20
55 verses
Verse 1
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा
Verse 2
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च गतिर्यश्शरणं चापि स रामोऽद्य प्रवत्स्यति
Verse 3
कौशल्यायां यथा युक्तो जनन्यां वर्तते सदा तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः
Verse 4
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् क्रुद्धान्प्रसादयन्सर्वान् स इतोऽद्य प्रवत्स्यति
Verse 5
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् यो गतिं सर्वभूतानां परित्यजति राघवम्
Verse 6
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः
Verse 7
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयताऽसने
Verse 8
रामस्तु भृशमायस्तो निश्श्वसन्निव कुञ्जरः जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी
Verse 9
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून्
Verse 10
दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्
Verse 11
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाऽभिसत्कृतान्
Verse 12
प्रणम्य रामस्तान्विप्रांस्तृतीयायां ददर्श सः स्त्रियो वृद्धास्तथा बाला द्वाररक्षणतत्पराः
Verse 13
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः न्यवेदयन्त त्वरिता राममातुः प्रियं तदा
Verse 14
कौशल्यापि तदा देवी रात्रिं स्थित्वा समाहिता प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी
Verse 15
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला
Verse 16
प्रविश्य च तदा रामो मातुरन्त:पुरं शुभम् ददर्श मातरं तत्र हावयन्तीं हुताशनम्
Verse 17
देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा लाजान्माल्यानि शुक्लानि पायसं कृसरं तथा समिध: पूर्णकुम्भांश्च ददर्श रघुनन्दनः
Verse 18
देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा लाजान्माल्यानि शुक्लानि पायसं कृसरं तथा समिध: पूर्णकुम्भांश्च ददर्श रघुनन्दनः
Verse 19
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम्
Verse 20
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् अभिचक्राम संहृष्टा किशोरं बडबा यथा
Verse 21
स मातरमभिक्रान्तामुपसंगृह्य राघवः परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि
Verse 22
तमुवाच दुराधर्षं राघवं सुतमात्मनः कौशल्या पुत्रवात्सल्यादिदं प्रियहितं वचः
Verse 23
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले
Verse 24
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति
Verse 25
दत्तमासनमालभ्य भोजनेन निमन्त्रितः मातरं राघवः किञ्चिद्व्रीडात्प्रसार्याञ्जलिमब्रवीत्
Verse 26
स स्वभावविनीतश्च गौरवाच्च तदा नतः प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे
Verse 27
देवि नूनं न जानीषे महद्भयमुपस्थितम् इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च
Verse 28
गमिष्ये दण्डकारण्यं किमनेनासनेन मे विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः
Verse 29
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम्
Verse 30
भरताय महाराजो यौवराज्यं प्रयच्छति मां पुनर्दण्डकारण्ये विवासयति तापसम्
Verse 31
स षट्चाष्टौ च वर्षाणि वत्स्यामि विजने वने आसेवमानो वन्यानि फलमूलैश्च वर्तयन्
Verse 32
सा निकृत्तेव सालस्य यष्टिः परशुना वने पपात सहसा देवी देवतेव दिवश्च्युता
Verse 33
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव रामस्तूत्थापयामास मातरं गतचेतसम्
Verse 34
उपावृत्त्योत्थितां दीनां बडबामिव वाहिताम् पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना
Verse 35
सा राघवमुपासीनमसुखार्ता सुखोचिता उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे
Verse 36
यदि पुत्र न जायेथा मम शोकाय राघव न स्म दुःखमतो भूयः पश्येयमहमप्रजाः
Verse 37
एक एव हि वन्ध्याया श्शोको भवति मानसः अप्रजाऽस्मीति सन्तापो न ह्यन्यः पुत्र विद्यते
Verse 38
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे अपि पुत्रे ऽपि पश्येयमिति रामाऽस्थितं मया
Verse 39
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् अहं श्रोष्ये सपत्नीनामवराणां वरा सती
Verse 40
अतो दुःखतरं किं नु प्रमदानां भविष्यति मम शोको विलापश्च यादृशोऽयमनन्तकः
Verse 41
त्वयि सन्निहितेऽप्येवमहमासं निराकृता किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे
Verse 42
अत्यन्तनिगृहीतास्मि भर्तुर्नित्यमतन्त्रिता परिवारेण कैकेय्या स्समा वाप्यथवाऽवरा
Verse 43
योऽहि मां सेवते कश्चिदथवाप्यनुवर्तते कैकेय्याः पुत्रमन्वीक्ष्य स्वश्चि जनो नाभिभाषते
Verse 44
नित्यक्रोधतया तस्याः कथं नु खरवादितत् कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता
Verse 45
दश सप्त च वर्षाणि जातस्य तव राघव अतितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्
Verse 46
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम् विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव
Verse 47
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् कृपणा वर्तयिष्यामि कथं कृपणजीविकाम्
Verse 48
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया
Verse 49
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते प्रावृषीव महानद्या स्पृष्टं कूलं नवाम्भसा
Verse 50
ममैव नूनं मरणं न विद्यते न चावकाऽशोस्ति यमक्षयेऽमम यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव
Verse 51
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते
Verse 52
इदं हि दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि तपश्च तप्तं यदपत्यकारणा त्सुनिष्फलं बीजमिवोप्तमूषरे
Verse 53
यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै
Verse 54
अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ अनुव्रजिष्यामि वनं त्वयैव गौ स्सुदुर्बला वत्समिवानुकाङ्क्षया
Verse 55
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् व्यसनमुपनिशम्य सा मह त्सुतमिव बद्धमवेक्ष्य किन्नरी
0:000:00
Speed: