Book 2 • Chapter 21
Sarga 21
63 verses
Verse 1
तथा तु विलपन्तीं तां कौसल्यां राममातरम् उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
Verse 2
न रोचते ममाप्येतदार्ये यद्राघवो वनम् त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः
Verse 3
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः नृपः किमिव न ब्रूयाच्चोद्यमानस्समन्मथः
Verse 4
नास्यापराधं पश्यामि नापि दोषं तथाविधम् येन निर्वास्यते राष्ट्राद्वनवासाय राघवः
Verse 5
न तं पश्याम्यहं लोके परोक्षमपि यो नरः स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्
Verse 6
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्
Verse 7
तदिदं वचनं राज्ञःपुनर्बाल्यमुपेयुषः पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्
Verse 8
यावदेव न जानाति कश्चिदर्थमिमं नरः तावदेव मया सार्धमात्मस्थं कुरु शासनम्
Verse 9
मया पार्श्वे सधनुषा तव गुप्तस्य राघव क स्समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
Verse 10
निर्मनुष्यामिमां कृत्स्नामयोध्यां मनुजर्षभ करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये
Verse 11
भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते
Verse 12
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि
Verse 13
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्
Verse 14
बलमेष किमाश्रित्य हेतुं वापुरुषर्षभ दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव
Verse 15
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् काऽस्य शक्तिश्श्रियं दातुं भरतायारिशासन
Verse 16
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
Verse 17
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय
Verse 18
हरामि वीर्याद्दुःखं ते तम स्सूर्य इवोदितः देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु
Verse 19
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः उवाच रामं कौशल्या रुदन्ती शोकलालसा
Verse 20
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते
Verse 21
न चाधर्म्यं वच श्रुत्वा सपत्न्या मम भाषितम् विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः
Verse 22
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्
Verse 23
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः
Verse 24
यथैव राजा पूज्यस्ते गौरवेण तथाऽस्म्यहम् त्वां नाहमनुजानामि न गन्तव्यमितो वनम्
Verse 25
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा त्वया सह मम श्रेयस्तृणानामपि भक्षणम्
Verse 26
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्
Verse 27
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ब्रह्महत्यामिवाधर्मात्समुद्र स्सरितां पतिः
Verse 28
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
Verse 29
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्
Verse 30
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा गौर्हता जानता धर्मं कण्डुनाऽपि विपश्चिता
Verse 31
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान्वधः
Verse 32
जामद्ग्न्येन रामेण रेणुका जननी स्वयम् कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा
Verse 33
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्
Verse 34
न खल्वेतन्मयैकेन क्रियते पितृशासनम् एतैरपि कृतं देवि ये मया तव कीर्तिताः
Verse 35
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते
Verse 36
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते
Verse 37
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् वाक्यं वाक्यविदां श्रेष्ठश्श्रेष्ठस्सर्वधनुष्मताम्
Verse 38
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्
Verse 39
मम मातुर्महद्दुःखमतुलं शुभलक्षण अभिप्रायमविज्ञाय सत्यस्य च शमस्य च
Verse 40
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्
Verse 41
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता
Verse 42
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् पितुर्हिवचनाद्वीर कैकेय्याऽहं प्रचोदितः
Verse 43
तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्
Verse 44
तमेवमुत्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः उवाच भूयः कौसल्यां प्राञ्जलिश्शिरसानतः
Verse 45
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे
Verse 46
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ययातिरिव राजर्षिःपुरा हित्वा पुनर्दिवम्
Verse 47
शोकस्सन्धार्यतां मात र्हृदये साधु मा शुचः वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः
Verse 48
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः
Verse 49
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च वनवासकृता बुद्धिर्मम धर्म्याऽनु वर्त्यताम्
Verse 50
एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लबं च मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच
Verse 51
यथैव ते पुत्र पिता तथाऽहं गुरु स्स्वधर्मेण सुहृत्तया च न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम्
Verse 52
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात्
Verse 53
नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः
Verse 54
स मातरं चैव विसंज्ञकल्पा मार्तं च सौमित्रिमभिप्रतप्तम् धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्
Verse 55
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम्
Verse 56
धर्मार्थकामाः खलु तात लोके समीक्षिता धर्मफलोदयेषु ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा
Verse 57
यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यत स्स्यात्तदुपक्रमेत द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता
Verse 58
गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वाऽपि कामात् यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तन्न कुर्यादनृशंसवृत्तिः 2.21.58
Verse 59
स वै न शक्नोमि पितुः प्रतिज्ञा मिमामकर्तुं सकलां यथावत् स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गति स्सधर्मः
Verse 60
तस्मिन्पुनर्जीवति धर्मराजे विशेषतस्स्वे पथि वर्तमाने देवी मया सार्धमितोऽपगच्छेत् कथं स्विदन्या विधवेव नारी
Verse 61
सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व न स्स्वस्त्ययनानि देवि यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः
Verse 62
यशो ह्यहं केवलराज्यकारणा न्न पृष्ठतः कर्तुमलं महोदयम् अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः
Verse 63
प्रसादयन्नरवृषभ स्समातरं पराक्रमाज्जिगमिषुरेव दण्डकान् अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्
0:000:00
Speed: