Book 2 • Chapter 22
Sarga 22
30 verses
Verse 1
अथ तं व्यथया दीनं सविशेषममर्षितम् श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्
Verse 2
अथ तं व्यथया दीनं सविशेषममर्षितम् श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् आसाद्य रामस्सौमित्रिं सुहृदं भ्रातरं प्रियम् उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्
Verse 3
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम्
Verse 4
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम्
Verse 5
सौमित्रे योऽभिषेकार्थे मम सम्भार सम्भ्रमः अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसम्भ्रमः
Verse 6
यस्या मदभिषेकार्थे मानसं परितप्यते माता मे सा यथा न स्यात्सविशङ्का तथा कुरु
Verse 7
तस्याश्शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्
Verse 8
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन मातृ़णां वा पितुर्वाऽहं कृतमल्पं च विप्रियम्
Verse 9
सत्यस्सत्याभिसन्धश्च नित्यं सत्यपराक्रमः परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम
Verse 10
तस्याऽपि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्
Verse 11
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण अन्वगेवाहमिच्छामि वनं गन्तुमितःपुनः
Verse 12
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा सुतं भरतमव्यग्रमभिषेचयिता ततः
Verse 13
मयि चीराजिनधरे जटामण्डलधारिणि गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम्
Verse 14
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् तं तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्
Verse 15
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने राज्यस्य च वितीर्णस्य पुनरेव निवर्तने
Verse 16
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्
Verse 17
जानासि हि यथा सौम्य न मातृषु ममान्तरम् भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा
Verse 18
सोऽभिषेकनिवृत्त्यर्थैप्रवासार्थैश्च दुर्वचैः उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये
Verse 19
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ
Verse 20
यदचिन्त्यन्तु तद्दैवं भूतेष्वपि न विहन्यते व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः
Verse 21
कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् यस्य न ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते
Verse 22
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्
Verse 23
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः उत्सृज्य नियमांस्तीव्रान्भ्रश्यन्ते काममन्युभिः
Verse 24
असङ्कल्पितमेवेह यदकस्मात्प्रवर्तते निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत्
Verse 25
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना व्याहतेऽप्यभिषेके मे परितापो न विद्यते
Verse 26
तस्मादपरितापस्संस्त्वमप्यनुविधाय माम् प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्
Verse 27
एभिरेव घटै स्सर्वैरभिषेचनसम्भृतैः मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति
Verse 28
अथवा किं ममैतेन राजद्रव्यमयेन तु उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति
Verse 29
मा च लक्ष्मण सन्तापं कार्षीर्लक्ष्म्या विपर्यये राज्यं वा वनवासो वा वनवासो महोदयः
Verse 30
न लक्ष्मणास्मिन्खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथा प्रभावम्
0:000:00
Speed: