🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 23

Sarga 23

40 verses

Verse 1
इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः श्रृत्वा मध्यं जगामेव मनसा दुःखहर्षयोः
Verse 2
तदा तु बध्द्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः निशश्वास महासर्पो बिलस्थ इव रोषितः
Verse 3
तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्
Verse 4
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः तिर्यगूर्ध्वं शरीरे  पातयित्वा शिरोधराम् अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्
Verse 5
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् धर्मदोष प्रसङ्गेन लोकस्यानतिशङ्कया कथंह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति यथा दैवमशौडीरं शौण्डीर क्षत्रियर्षभ
Verse 6
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् धर्मदोष प्रसङ्गेन लोकस्यानतिशङ्कया कथंह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति यथा दैवमशौडीरं शौण्डीर क्षत्रियर्षभ
Verse 7
किन्नाम कृपणं दैवमशक्तमभिशंससि पापयोस्ते कथं नाम तयोश्शङ्का  विद्यते
Verse 8
सन्ति धर्मोपधा श्लक्ष्णाः धर्मात्मन्किं  बुध्यसे तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः
Verse 9
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः
Verse 10
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि
Verse 11
येनेय मागता द्वैधं तव बुद्धिर्महामते  हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि
Verse 12
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्
Verse 13
यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं  गृह्यते जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः
Verse 14
मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः
Verse 15
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् तथाप्युपेक्षणीयं ते  मे तदपि रोचते
Verse 16
विक्लबो वीर्यहीनो यस्स दैवमनुवर्तते वीरास्सम्भावितात्मानो  दैवं पर्युपासते
Verse 17
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्  दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति
Verse 18
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य  दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति
Verse 19
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्
Verse 20
अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् प्रधावितमहं दैवं पौरुषेण निवर्तये
Verse 21
लोकपालास्समस्ता स्ते नाद्य रामाभिषेचनम्   कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता
Verse 22
यैर्निवासस्तवारण्ये मिथो राजन्समर्थितः अरण्ये ते निवत्स्यन्ति चतुर्दश समास्तथा
Verse 23
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव अभिषेकविघातेन पुत्रराज्याय वर्तते
Verse 24
मद्बलेन विरुद्धाय  स्याद्दैवबलं तथा प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम
Verse 25
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि
Verse 26
पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने
Verse 27
 चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि प्रतिजाने  ते वीर माऽभूवं वीरलोकभाक् राज्यं  तव रक्षेयमहं वेलेव सागरम्
Verse 28
 चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि प्रतिजाने  ते वीर माऽभूवं वीरलोकभाक् राज्यं  तव रक्षेयमहं वेलेव सागरम्
Verse 29
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव अहमेको महीपालानलं वारयितुं बलात्
Verse 30
 शोभार्थाविमौ बाहू  धनुर्भूषणाय मे नाऽसिराबन्धनार्थाय  शरास्तम्भहेतवः अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्
Verse 31
 चाहं कामयेऽत्यर्थं यस्स्याच्छत्रुर्मतो मम असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा प्रगृहीतेन वै शत्रुं वज्रिणं वा  कल्पये
Verse 32
 चाहं कामयेऽत्यर्थं यस्स्याच्छत्रुर्मतो मम असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा प्रगृहीतेन वै शत्रुं वज्रिणं वा  कल्पये
Verse 33
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा  मे हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही
Verse 34
खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः
Verse 35
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते
Verse 36
बहुभिश्चैकमत्यस्यन्नेकेन  बहून्जनान् विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु
Verse 37
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं तव  प्रभोः
Verse 38
अद्य चन्दनसारस्य केयूरामोक्षणस्य  वसूनां  विमोक्षस्य सुहृदां पालनस्य  अनुरूपाविमौ बाहू राम कर्म करिष्यतः अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे
Verse 39
अद्य चन्दनसारस्य केयूरामोक्षणस्य  वसूनां  विमोक्षस्य सुहृदां पालनस्य  अनुरूपाविमौ बाहू राम कर्म करिष्यतः अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे
Verse 40
ब्रवीहि कोऽद्यैव मया वियुज्यताम् तवा सुहृत्प्राणयशस्सुहृज्जनैः यथा तवेयं वसुधा वशे भवे त्तथैव मां शाधि तवास्मि किङ्करः
0:000:00
Speed: