🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 24

Sarga 24

38 verses

Verse 1
तं समीक्ष्य त्ववहितं पितुर्निर्देश पालने कौशल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्
Verse 2
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः मयि जातो दशरथात्कथमुञ्छेन वर्तयेत्
Verse 3
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते कथं  भोक्ष्यतेऽनाथो वने मूलफलान्ययम्
Verse 4
कः एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा  भवेद्भयम् गुणवान्दयितो राज्ञा राघवो यद्विवास्यते
Verse 5
नूनं तु बलवान् लोके कृतान्तस्सर्वमादिशन् लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि
Verse 6
अयं तु मामात्मभव स्तवादर्शनमारुतः विलापदुःखसमिधो रुदिताश्रुहुताहुतिः चिन्ताबाष्पमहाधूमस्तवागमनचित्तजः कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः त्वया विहीनामिह मां शोकाग्निरतुलो महान् प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये
Verse 7
अयं तु मामात्मभव स्तवादर्शनमारुतः विलापदुःखसमिधो रुदिताश्रुहुताहुतिः चिन्ताबाष्पमहाधूमस्तवागमनचित्तजः कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः त्वया विहीनामिह मां शोकाग्निरतुलो महान् प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये
Verse 8
अयं तु मामात्मभव स्तवादर्शनमारुतः विलापदुःखसमिधो रुदिताश्रुहुताहुतिः चिन्ताबाष्पमहाधूमस्तवागमनचित्तजः कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः त्वया विहीनामिह मां शोकाग्निरतुलो महान् प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये
Verse 9
कथं हि धेनु स्स्वं वत्सं गच्छन्तं नानुगच्छति अहं त्वाऽनुगमिष्यामि यत्र पुत्र गमिष्यसि
Verse 10
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्
Verse 11
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते भवत्या  परित्यक्तो  नूनं वर्तयिष्यति
Verse 12
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः  भवत्या  कर्तव्यो मनसाऽपि विगर्हितः
Verse 13
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः शुश्रूषा क्रियतां तावत्सहि धर्मस्सनातनः
Verse 14
एवमुक्ता तु रामेण कौशल्या शुभदर्शना तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्
Verse 15
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्
Verse 16
मया चैव भवत्या  कर्तव्यं वचनं पितुः राजा भर्ता गुरु श्श्रेष्ठस्सर्वेषामीश्वरः प्रभुः
Verse 17
इमानि तु महारण्ये विहृत्य नव पञ्च  वर्षाणि परमप्रीतः स्थास्यामि वचने तव
Verse 18
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा उवाच परमार्ता तु कौशल्या पुत्रवत्सला
Verse 19
आसां राम सपत्नीनां वस्तुं मध्ये  मे क्षमम् नय मामपि काकुत्स्थ वनं वन्यां मृगीं यथा यदि ते गमने बुद्धिः कृता पितुरपेक्षया
Verse 20
तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव 
Verse 21
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः  ह्यनाथा वयं राज्ञा लोकनाथेन धीमता
Verse 22
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः भवतीमनुवर्तेत  हि धर्मरतस्सदा
Verse 23
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु
Verse 24
दारुणश्चाप्ययं शोको यथैनं  विनाशयेत् राज्ञो वृद्धस्य सततं हितं चर समाहिता
Verse 25
व्रतोपवासनिरता या नारी परमोत्तमा भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत्
Verse 26
भर्तु श्शुश्रूषया नारी लभते स्वर्गमुत्तमम् अपि या निर्नमस्कारा निवृत्ता देवपूजनात्
Verse 27
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः
Verse 28
अग्निकार्येषु  सदा सुमनोभिश्च देवताः पूज्यास्ते मत्कृते देवि बाह्मणाश्चैव सुव्रताः
Verse 29
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी नियता नियताहारा भर्तृशुश्रूषणे रता
Verse 30
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्
Verse 31
एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा कौशल्या पुत्रशोकार्ता रामं वचनमब्रवीत्
Verse 32
गमने सुकृतां बुद्धिं  ते शक्नोमि पुत्रक विनिवर्तयितुं वीर नूनं कालो दुरत्ययः
Verse 33
गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभुः पुनस्त्वयि निवृत्ते तु भविष्यामि गतव्यथा
Verse 34
प्रत्यागते महाभागे कृतार्थे चरितव्रते पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम्
Verse 35
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव
Verse 36
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा
Verse 37
अपीदानीं  कालस्स्याद्वनात्प्रत्यागतं पुनः यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम्
Verse 38
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा उवाच रामं शुभलक्षणं वचो बभूव  स्वस्त्ययनाभिकाङ्क्षिणी
0:000:00
Speed: