Book 2 • Chapter 25
Sarga 25
47 verses
Verse 1
साऽवनीय तमायासमुपस्पृश्य जलं शुचिः चकार माता रामस्य मङ्गलानि मनस्विनी
Verse 2
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे
Verse 3
यं पालयसि धर्मं त्वं धृत्या च नियमेन च स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु
Verse 4
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ते च त्वामभिरक्षन्तु वने सह महर्षिभिः
Verse 5
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता तानि त्वामभिरक्षन्तु गुणैस्समुदितं सदा
Verse 6
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा सत्येन च महाबाहो चिरं जीवाभिरक्षितः
Verse 7
समित्कुश पवित्राणि वेद्यश्चायतनानि च स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः पतङ्गाः पन्नगास्सिंहास्त्वां रक्षन्तु नरोत्तम
Verse 8
स्वस्तिसाध्याश्च विश्वे च मरुतश्च महर्षयः स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा
Verse 9
ऋतवश्चैव पक्षाश्च मासा स्संवत्सराः क्षपाः दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा
Verse 10
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः स्कन्दश्च भगवान्देव स्सोमश्च स बृहस्पतिः सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः
Verse 11
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः स्कन्दश्च भगवान्देव स्सोमश्च स बृहस्पतिः सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः
Verse 12
याश्चापि सर्वतस्सिध्दा दिशश्च सदिगीश्वराः स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः
Verse 13
शैलास्सर्वे समुद्राश्च राजा वरुण एव च द्यौरन्तरिक्षं पृथिवी नद्यस्सर्वास्तथैव च नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्
Verse 14
शैलास्सर्वे समुद्राश्च राजा वरुण एव च द्यौरन्तरिक्षं पृथिवी नद्यस्सर्वास्तथैव च नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्
Verse 15
ऋतवश्चैव षट्पुण्या मासास्संवत्सरास्तथा कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते
Verse 16
महावने विचरतो मुनिवेषस्य धीमतः तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा
Verse 17
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम्
Verse 18
प्लवगा वृश्चिका दंशामशकाश्चैव कानने सरीसृपाश्च कीटाश्च मा भूवन्गहने तव
Verse 19
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः महिषा श्शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक
Verse 20
नृमांसभोजना रौद्रा ये चान्ये सत्वजातयः मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह
Verse 21
आगमास्ते शिवास्सन्तु सिध्यन्तु च पराक्रमाः सर्वसम्पत्तये राम स्वस्तिमान्गच्छ पुत्रक
Verse 22
स्वस्ति ते ऽस्त्वन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः सर्वेभ्यश्चैव देवेभ्यो ये च वै परिपन्थिनः
Verse 23
गुरुस्सोमश्च सूर्यश्च धनदोऽथ यमस्तथा पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्
Verse 24
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन
Verse 25
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ये च शेषास्सुरास्ते त्वां रक्षन्तु वनवासिनम्
Verse 26
इति माल्यैस्सुरगणान्गन्धैश्चापि यशस्विनी स्तुतिभिश्चानुरूपाभिरानर्चाऽयतलोचना
Verse 27
ज्वलनं समुपादाय ब्राह्मणेन महात्मना हावयामास विधिना राममङ्गलकारणात्
Verse 28
घृतं श्वेतानि माल्यानि समिधश्श्वेतसर्षपान् उपसम्पादयामास कौशल्या परमाङ्गना
Verse 29
उपाध्याय स्सविधिना हुत्वा शान्तिमनामयम् हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्
Verse 30
मधु दध्यक्षतघृतैः स्वस्तिवाच्यद्विजांस्ततः वाचयामास रामस्य वनेस्वस्त्ययनक्रियाः
Verse 31
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्
Verse 32
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्
Verse 33
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्
Verse 34
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्
Verse 35
त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्
Verse 36
ऋतवस्सागरा द्वीपा वेदा लोका दिशश्च ते मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः
Verse 37
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी गन्धैश्चापि समालभ्य राममायतलोचना ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् चकार रक्षां कौशल्या मन्त्रैरभिजजाप च
Verse 38
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी गन्धैश्चापि समालभ्य राममायतलोचना ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् चकार रक्षां कौशल्या मन्त्रैरभिजजाप च
Verse 39
उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी वाङ्ग्मात्रेण न भावेन वाचाऽसंसज्जमानया
Verse 40
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्
Verse 41
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि
Verse 42
प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम्
Verse 43
भद्रासनगतं राम वनवासादिहागतम् द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः
Verse 44
मङ्गलैरुपसपन्नो वनवासादिहागतः वध्वा मम च नित्यं त्वं कामान्संवर्ध याहि भोः
Verse 45
मयाऽर्चिता देवगणाश्शिवादयो महर्षयो भूतमहासुरोरगाः अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव
Verse 46
इतीव साऽश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे
Verse 47
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः जगाम सीतानिलयं महायशा स्स राघवः प्रज्वलित स्स्वया श्रिया
0:000:00
Speed: