🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 26

Sarga 26

38 verses

Verse 1
अभिवाद्य  कौसल्यां राम स्संप्रस्थितो वनम् कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः विराजयन्राजसुतो राजमार्गं नरैर्वृतम् हृदयान्याममन्थेव जनस्य गुणवत्तया
Verse 2
अभिवाद्य  कौसल्यां राम स्संप्रस्थितो वनम् कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः विराजयन्राजसुतो राजमार्गं नरैर्वृतम् हृदयान्याममन्थेव जनस्य गुणवत्तया
Verse 3
वैदेही चापि तत्सर्वं  शुश्राव तपस्विनी तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्
Verse 4
देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते
Verse 5
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः
Verse 6
अथ सीता समुत्पत्य वेपमाना  तं पतिम् अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम्
Verse 7
तां दृष्ट्वा  हि धर्मात्मा  शशाक मनोगतम् तं शोकं राघवः सोढुं ततो विवृततां गतः
Verse 8
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो
Verse 9
अद्य बार्हस्पत श्श्रीमान्युक्तः पुष्योऽनु राघव प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः
Verse 10
 ते शतशलाकेन जलफेननिभेन  आवृतं वदनं वल्गु छत्रेणापि विराजते
Verse 11
व्यजनाभ्यां  मुख्याभ्यां शतपत्रनिभेक्षणम् चन्द्रहंसप्रकाशाभ्यां वीज्यते  तवाननम्
Verse 12
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः स्सूतमागधाः
Verse 13
 ते क्षौद्रं  दधि  ब्राह्मणा वेदपारगाः मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः
Verse 14
 त्वां प्रकृतय स्सर्वा श्श्रेणीमुख्याश्च भूषिताः अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा
Verse 15
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः मुख्यः पुष्यरथो युक्तः किं  गच्छति तेऽग्रतः
Verse 16
हस्ती चाग्रत श्श्रीमां स्तव लक्षणपूजितः प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः
Verse 17
  काञ्चनचित्रं ते पश्यामि प्रियदर्शन भद्रासनं पुरस्कृत्य यान्तं वीर पुरस्कृतम्
Verse 18
अभिषेको यथा सज्जः किमिदानीमिदं तव अपूर्वो मुखवर्णश्च  प्रहर्षश्च लक्ष्यते
Verse 19
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः सीते तत्र भवांस्तातः प्रव्राजयति मां वनम्
Verse 20
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि शृणु जानकि येनेदं क्रमेणाभ्यागतं मम
Verse 21
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन  कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ
Verse 22
तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते प्रचोदित स्स समयो धर्मेण प्रतिनिर्जितः
Verse 23
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया पित्रा मे भरतश्चापि यौवराज्ये नियोजितः
Verse 24
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् भरतस्य समीपे तु नाहं कथ्यः कदाचन बुद्धियुक्ता हि पुरुषा  सहन्ते परस्तवम् तस्मान्नते गुणाः कथ्या भरतस्याग्रतो मम
Verse 25
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् भरतस्य समीपे तु नाहं कथ्यः कदाचन बुद्धियुक्ता हि पुरुषा  सहन्ते परस्तवम् तस्मान्नते गुणाः कथ्या भरतस्याग्रतो मम
Verse 26
नापि त्वं तेन भर्तव्या विशेषेण कदाचन अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम्
Verse 27
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्  प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः
Verse 28
अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन् वनमद्यैव यास्यामि स्थिरा भव मनस्विनी
Verse 29
याते  मयि कल्याणि वनं मुनिनिषेवितम् व्रतोपवासपरया भवितव्यं त्वयाऽनघे
Verse 30
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि वन्दितव्यो दशरथः पिता मम नरेश्वरः
Verse 31
माता  मम कौशल्या वृद्धा सन्तापकर्शिता धर्ममेवाग्रतः कृत्वा त्वत्त स्सम्मानमर्हति
Verse 32
वन्दितव्याश्च ते नित्यं या श्शेषा मम मातरः स्नेह प्रणयसम्भोगै स्समा हि मम मातरः
Verse 33
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ  विशेषतः त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम
Verse 34
विप्रियं   कर्तव्यं भरतस्य कदाचन  हि राजा प्रभुश्चैव देशस्य  कुलस्य 
Verse 35
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः राजान स्सम्प्रसीदन्ति कुप्यन्तिच विपर्यये
Verse 36
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः
Verse 37
सा त्वं वसेह कल्याणि राज्ञस्समनुवर्तिनी भरतस्य रता धर्मे सत्यव्रतपरायणा
Verse 38
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि यथा व्यलीकं कुरुषे  कस्य चि त्तथा त्वया कार्यमिदं वचो मम
0:000:00
Speed: