Book 2 • Chapter 27
Sarga 27
23 verses
Verse 1
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्
Verse 2
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज
Verse 3
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते
Verse 4
भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि
Verse 5
न पिता नात्मजो नात्मा न माता न सखीजनः इह प्रेत्य च नारीणां पतिरेको गतिस्सदा
Verse 6
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्
Verse 7
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् नय मां वीर विस्रब्धः पापं मयि न विद्यते
Verse 8
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते
Verse 9
अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् नाऽस्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया
Verse 10
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् नानामृगगणाकीर्णं शार्दूलवृकसेवितम्
Verse 11
सुखं वने निवत्स्यामि यथैव भवने पितुः अचिन्तयन्ती त्रीन्लोकांश्च्चिन्तयन्ती पतिव्रतम्
Verse 12
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु
Verse 13
त्वं हि शक्तो वने कर्तुं राम सम्परिपालनम् अन्यस्यापि जनस्येह किं पुनर्मम मानद
Verse 14
सह त्वया गमिष्यामि वनमद्य न संशयः नाहं शक्या महाभाग निवर्तयितुमुद्यता
Verse 15
फलमूलाशना नित्यं भविष्यामि न संशयः न ते दुःखं करिष्यामि निवसन्ती सह त्वया
Verse 16
इच्छामि सरितश्शैलान्पल्वलानि वनानि च द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता
Verse 17
हंसकारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता
Verse 18
अभिषेकं करिष्यामि तासु नित्यं यतव्रता सह त्वया विशालाक्ष रंस्ये परमनन्दिनी
Verse 19
एवं वर्षसहस्राणां शतं वाऽहं त्वया सह व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः
Verse 20
स्वर्गेऽपि च विना वासो भविता यदि राघव त्वया मम नरव्याघ्र नाहं तमपि रोचये
Verse 21
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता
Verse 22
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणायनिश्चिताम् नयस्व मां साधु कुरुष्व याचनाम् न ते मयाऽतो गुरुता भविष्यति
Verse 23
तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति
0:000:00
Speed: