🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 1

Sarga 1

100 verses

Verse 1
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्
Verse 2
कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:
Verse 3
चारित्रेण  को युक्तस्सर्वभूतेषु को हित: विद्वान्क: कस्समर्थश्च कश्चैकप्रियदर्शन:
Verse 4
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयक: कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे
Verse 5
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्
Verse 6
श्रुत्वा चैतत्ित्रलोकज्ञो वाल्मीकेर्नारदो वच: श्रूयतामिति चामन्त्त्र्य प्रहृष्टो वाक्यमब्रवीत्
Verse 7
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा: मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नर:
Verse 8
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी
Verse 9
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु:
Verse 10
महोरस्को महेष्वासो गूढजत्रुररिन्दमः आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः
Verse 11
समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः
Verse 12
धर्मज्ञस्सत्यसन्धश्च प्रजानां  हिते रतः यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान्
Verse 13
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता
Verse 14
रक्षिता स्वस्य धर्मस्य स्वजनस्य  रक्षिता वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे  निष्ठितः
Verse 15
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः
Verse 16
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः
Verse 17
  सर्वगुणोपेत: कौसल्यानन्दवर्धन: समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
Verse 18
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः धनदेन समस्त्यागे सत्ये धर्म इवापरः
Verse 19
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति:
Verse 20
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति:
Verse 21
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी पूर्वं दत्तवरा देवी वरमेनमयाचत विवासनं  रामस्य भरतस्याभिषेचनम्
Verse 22
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी पूर्वं दत्तवरा देवी वरमेनमयाचत विवासनं  रामस्य भरतस्याभिषेचनम्
Verse 23
 सत्यवचनाद्राजा धर्मपाशेन संयत: विवासयामास सुतं रामं दशरथ: प्रियम्
Verse 24
 जगाम वनं वीर: प्रतिज्ञामनुपालयन् पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्
Verse 25
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम  स्नेहाद्विनयसम्पन्नस्सुमित्रानन्दवर्धन: भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन्
Verse 26
रामस्य दयिता भार्या नित्यं प्राणसमा हिता जनकस्य कुले जाता देवमायेव निर्मिता सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू: सीताप्यनुगता रामं शशिनं रोहिणी यथा
Verse 27
रामस्य दयिता भार्या नित्यं प्राणसमा हिता जनकस्य कुले जाता देवमायेव निर्मिता सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू: सीताप्यनुगता रामं शशिनं रोहिणी यथा
Verse 28
पौरैरनुगतो दूरं पित्रा दशरथेन  शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् गुहेन सहितो रामो लक्ष्मणेन  सीतया
Verse 29
पौरैरनुगतो दूरं पित्रा दशरथेन  शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् गुहेन सहितो रामो लक्ष्मणेन  सीतया
Verse 30
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका: चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् रम्यमावसथं कृत्वा रममाणा वने त्रय: देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्
Verse 31
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका: चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् रम्यमावसथं कृत्वा रममाणा वने त्रय: देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्
Verse 32
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा राजा दशरथस्स्वर्गं जगाम विलपन्सुतम्
Verse 33
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजै: नियुज्यमानो राज्याय नैच्छद्राज्यं महाबल:
Verse 34
 जगाम वनं वीरो रामपादप्रसादक:
Verse 35
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् अयाचद्भ्रातरं राममार्यभावपुरस्कृत: त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्
Verse 36
रामोऽपि परमोदारस्सुमुखस्सुमहायशा:  चैच्छत्पितुरादेशाद्राज्यं रामो महाबल:
Verse 37
पादुके चास्य राज्याय न्यासं दत्वा पुन:पुन: निवर्तयामास ततो भरतं भरताग्रज:
Verse 38
 काममनवाप्यैव रामपादावुपस्पृशन् नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया
Verse 39
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रिय: रामस्तु पुनरालक्ष्य नागरस्य जनस्य  तत्रागमनमेकाग्रो दण्डकान्प्रविवेश 
Verse 40
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रिय: रामस्तु पुनरालक्ष्य नागरस्य जनस्य  तत्रागमनमेकाग्रो दण्डकान्प्रविवेश 
Verse 41
प्रविश्य तु महारण्यं रामो राजीवलोचनः विराधं राक्षसं हत्वा शरभङ्गं ददर्श  सुतीक्ष्णं चाप्यगस्त्यं  अगस्त्यभ्रातरं तथा
Verse 42
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् खड्गं  परमप्रीतस्तूणी चाक्षयसायकौ
Verse 43
वसतस्तस्य रामस्य वने वनचरैस्सह ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम्
Verse 44
 तेषां प्रतिशुश्राव राक्षसानां तथा वने प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्
Verse 45
 तेषां प्रतिशुश्राव राक्षसानां तथा वने प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्
Verse 46
तेन तत्रैव वसता जनस्थाननिवासिनी विरूपिता शूर्पणखा राक्षसी कामरूपिणी
Verse 47
ततश्शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् निजघान वने रामस्तेषां चैव पदानुगान्
Verse 48
वने तस्मिन्निवसता जनस्थाननिवासिनाम् रक्षसां निहतान्यासन्सहस्राणि चतुर्दश
Verse 49
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः सहायं वरयामास मारीचं नाम राक्षसम्
Verse 50
वार्यमाणस्सुबहुशो मारीचेन  रावणः  विरोधो बलवता क्षमो रावण तेन ते
Verse 51
अनादृत्य तु तद्वाक्यं रावण: कालचोदित: जगाम सह मारीचस्तस्याश्रमपदं तदा
Verse 52
तेन मायाविना दूरमपवाह्य नृपात्मजौ जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्
Verse 53
गृध्रं  निहतं दृष्ट्वा हृतां श्रुत्वा  मैथिलीम् राघवश्शोकसन्तप्तो विललापाकुलेन्द्रिय:
Verse 54
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् मार्गमाणो वने सीतां राक्षसं सन्ददर्श  कबन्धन्नाम रूपेण विकृतं घोरदर्शनम्
Verse 55
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् मार्गमाणो वने सीतां राक्षसं सन्ददर्श  कबन्धन्नाम रूपेण विकृतं घोरदर्शनम्
Verse 56
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च स:  चास्य कथयामास शबरीं धर्मचारिणीम् श्रमणीं धर्मनिपुणामभिगच्छेति राघव 1151
Verse 57
सोऽभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदन: शबर्या पूजितस्सम्यग्रामो दशरथात्मज:
Verse 58
पम्पातीरे हनुमता सङ्गतो वानरेण  हनुमद्वचनाच्चैव सुग्रीवेण समागत:
Verse 59
सुग्रीवाय  तत्सर्वं शंसद्रामो महाबल: आदितस्तद्यथावृत्तं सीतायाश्च विशेषत:
Verse 60
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानर: चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्
Verse 61
ततो वानरराजेन वैरानुकथनं प्रति रामायावेदितं सर्वं प्रणयाद्दु:खितेन 
Verse 62
प्रतिज्ञातं  रामेण तदा वालिवधं प्रति वालिनश्च बलं तत्र कथयामास वानर:
Verse 63
सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम् दर्शयामास सुग्रीवो महापर्वतसन्निभम्
Verse 64
सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम् दर्शयामास सुग्रीवो महापर्वतसन्निभम्
Verse 65
उत्स्मयित्वा महाबाहु: प्रेक्ष्य चास्थि महाबल: पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्
Verse 66
बिभेद  पुनस्सालान्सप्तैकेन महेषुणा गिरिं रसातलं चैव जनयन्प्रत्ययं तथा
Verse 67
तत: प्रीतमनास्तेन विश्वस्तस्स महाकपि: किष्किन्धां रामसहितो जगाम  गुहां तदा
Verse 68
ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल: तेन नादेन महता निर्जगाम हरीश्वर:
Verse 69
अनुमान्य तदा तारां सुग्रीवेण समागत: निजघान  तत्रैनं शरेणैकेन राघव:
Verse 70
ततस्सुग्रीववचनाद्धत्वा वालिनमाहवे सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत्
Verse 71
  सर्वान्समानीय वानरान्वानरर्षभ: दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्
Verse 72
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्
Verse 73
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्
Verse 74
निवेदयित्वाऽऽभिज्ञानं प्रवृत्तिं  निवेद्य  समाश्वास्य  वैदेहीं मर्दयामास तोरणम्
Verse 75
पञ्च सेनाग्रगान्हत्वा सप्तमन्त्रिसुतानपि शूरमक्षं  निष्पिष्य ग्रहणं समुपागमत्
Verse 76
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ततो दग्ध्वा पुरीं लङ्कामृते सीतां  मैथिलीम् रामाय प्रियमाख्यातुं पुनरायान्महाकपि:
Verse 77
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ततो दग्ध्वा पुरीं लङ्कामृते सीतां  मैथिलीम् रामाय प्रियमाख्यातुं पुनरायान्महाकपि:
Verse 78
सोऽधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत:
Verse 79
ततस्सुग्रीवसहितो गत्वा तीरं महोदधे: समुद्रं क्षोभयामास शरैरादित्यसन्निभै:
Verse 80
दर्शयामास चात्मानं समुद्रस्सरितां पति: समुद्रवचनाच्चैव नलं सेतुमकारयत्
Verse 81
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे राम: सीतामनुप्राप्य परां व्रीडामुपागमत्
Verse 82
तामुवाच ततो राम: परुषं जनसंसदि अमृष्यमाणा सा सीता विवेश ज्वलनं सती
Verse 83
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् बभौ रामस्सम्प्रहृष्ट: पूजितस्सर्वदैवतै:
Verse 84
कर्मणा तेन महता त्रैलोक्यं सचराचरम् सदेवर्षिगणं तुष्टं राघवस्य महात्मन:
Verse 85
अभिषिच्य  लङ्कायां राक्षसेन्द्रं विभीषणम् कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद 
Verse 86
देवताभ्यो वरं प्राप्य समुत्थाप्य  वानरान् अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्वृत:
Verse 87
भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रम: भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्
Verse 88
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च स: पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा
Verse 89
नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघ: रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान्
Verse 90
प्रहृष्टमुदितो लोकस्तुष्ट: पुष्टस्सुधार्मिक: निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित:
Verse 91
 पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषा: क्वचित् नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता:
Verse 92
 चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तव:  वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा  चापि क्षुद्भयं तत्र  तस्करभयं तथा
Verse 93
नगराणि  राष्ट्राणि धनधान्ययुतानि  नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा
Verse 94
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकै: गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशा:
Verse 95
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकै: गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशा:
Verse 96
राजवंशान्शतगुणान्स्थापयिष्यति राघव: चातुर्वर्ण्यं  लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति
Verse 97
दशवर्षसहस्राणि दशवर्षशतानि  रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति
Verse 98
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् य: पठेद्रामचरितं सर्वपापै: प्रमुच्यते
Verse 99
एतदाख्यानमायुष्यं पठन्रामायणं नर: सपुत्रपौत्रस्सगण: प्रेत्य स्वर्गे महीयते
Verse 100
पठन्द्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात् वणिग्जन: पण्यफलत्वमीयात् जनश्च शूद्रोऽपि महत्वमीयात्
0:000:00
Speed: